Mahabharata

Drona Parva, Adhyaya 140

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 140, Verse 1

वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते

सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः

Mahabharata

Drona Parva, Adhyaya 140, Verse 2

अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान्

अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया

Mahabharata

Drona Parva, Adhyaya 140, Verse 3

राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा

द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान्

Mahabharata

Drona Parva, Adhyaya 140, Verse 4

तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः

यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे

Mahabharata

Drona Parva, Adhyaya 140, Verse 5

कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत्

द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम्

Mahabharata

Drona Parva, Adhyaya 140, Verse 6

शैनेयं शरवर्षाणि विकिरन्तं समन्ततः

अभ्ययात्कौरवो राजन्भूरिः संग्राममूर्धनि

Mahabharata

Drona Parva, Adhyaya 140, Verse 7

सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम्

कर्णो वैकर्तनो राजन्वारयामास पाण्डवम्

Mahabharata

Drona Parva, Adhyaya 140, Verse 8

भीमसेनमथायान्तं व्यादितास्यमिवान्तकम्

स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत्

Mahabharata

Drona Parva, Adhyaya 140, Verse 9

नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम्

शकुनिः सौबलो राजन्वारयामास सत्वरः

Mahabharata

Drona Parva, Adhyaya 140, Verse 10

शिखण्डिनमथायान्तं रथेन रथिनां वरम्

कृपो शारद्वतो राजन्वारयामास संयुगे

Mahabharata

Drona Parva, Adhyaya 140, Verse 11

प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः

दुःशासनो महाराज यत्तो यत्तमवारयत्

Mahabharata

Drona Parva, Adhyaya 140, Verse 12

भैमसेनिमथायान्तं मायाशतविशारदम्

अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत्

Mahabharata

Drona Parva, Adhyaya 140, Verse 13

द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम्

वारयामास समरे द्रोणप्रेप्सुं महारथम्

Mahabharata

Drona Parva, Adhyaya 140, Verse 14

विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति

मद्रराजः सुसंक्रुद्धो वारयामास भारत

Mahabharata

Drona Parva, Adhyaya 140, Verse 15

शतानीकमथायान्तं नाकुलिं रभसं रणे

चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया

Mahabharata

Drona Parva, Adhyaya 140, Verse 16

अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम्

अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत्

Mahabharata

Drona Parva, Adhyaya 140, Verse 17

तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे

धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत्

Mahabharata

Drona Parva, Adhyaya 140, Verse 18

तथान्यान्पाण्डुपुत्राणां समायातान्महारथान्

तावका रथिनो राजन्वारयामासुरोजसा

Mahabharata

Drona Parva, Adhyaya 140, Verse 19

गजारोहा गजैस्तूर्णं संनिपत्य महामृधे

योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः

Mahabharata

Drona Parva, Adhyaya 140, Verse 20

निशीथे तुरगा राजन्नाद्रवन्तः परस्परम्

समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः

Mahabharata

Drona Parva, Adhyaya 140, Verse 21

सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः

समागच्छन्महाराज विनदन्तः पृथक्पृथक्

Mahabharata

Drona Parva, Adhyaya 140, Verse 22

नरास्तु बहवस्तत्र समाजग्मुः परस्परम्

गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संघशः

Mahabharata

Drona Parva, Adhyaya 140, Verse 23

कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम्

वारयामास संक्रुद्धो वेलेवोद्वृत्तमर्णवम्

Mahabharata

Drona Parva, Adhyaya 140, Verse 24

युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः

पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत्

Mahabharata

Drona Parva, Adhyaya 140, Verse 25

कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिष

धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः

Mahabharata

Drona Parva, Adhyaya 140, Verse 26

अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः

हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत्

Mahabharata

Drona Parva, Adhyaya 140, Verse 27

माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष

प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः

Mahabharata

Drona Parva, Adhyaya 140, Verse 28

तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च

प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान्

Mahabharata

Drona Parva, Adhyaya 140, Verse 29

ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम्

प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः

Mahabharata

Drona Parva, Adhyaya 140, Verse 30

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्

विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः