Drona Parva, Adhyaya 139, Verse 1
प्रकाशिते तथा लोके रजसा च तमोवृते
समाजग्मुरथो वीराः परस्परवधैषिणः
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रकाशिते तथा लोके रजसा च तमोवृते
समाजग्मुरथो वीराः परस्परवधैषिणः
ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः
परस्परमुदैक्षन्त परस्परकृतागसः
प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः
विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत
दह्यमानेव लोकानामभावे वै वसुंधरा
प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः
असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक्
नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः
रथा रथवरैरेव समाजग्मुर्मुदान्विताः
तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात्
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम्
व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान्
तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम्
अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा
किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत
के चैनं समरे वीरं प्रत्युद्ययुररिंदमम्
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः
के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः
के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान्
ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान्
धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान्
अव्यग्रानेव हि परान्कथयस्यपराजितान्
हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्
द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम्
दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत
विकर्णं चित्रसेनं च महाबाहुं च कौरवम्
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः
द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः
तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः
आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः
तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे
द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी
निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान्
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः
द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात्
पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम्
यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः
तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम्
स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान्
सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे
धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम्
तथार्जुनं रणे कर्णो विजेष्यति महारथः
भीमसेनमहं चापि युद्धे जेष्यामि दंशितः
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति
तस्माद्रक्षत संग्रामे द्रोणमेव महारथाः
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव
व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे
ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ
उभयोः सेनयोर्घोरं विजयं प्रति काङ्क्षिणोः
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः
नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन्