Drona Parva, Adhyaya 138, Verse 1
वर्तमाने तथा युद्धे घोररूपे भयावहे
तमसा संवृते लोके रजसा च महीपते
नापश्यन्त रणे योधाः परस्परमवस्थिताः
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
वर्तमाने तथा युद्धे घोररूपे भयावहे
तमसा संवृते लोके रजसा च महीपते
नापश्यन्त रणे योधाः परस्परमवस्थिताः
अनुमानेन संज्ञाभिर्युद्धं तद्ववृते महत्
नरनागाश्वमथनं परमं लोमहर्षणम्
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः
तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः
ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः
अहन्यन्त महाराज धावमानाश्च संयुगे
महारथसहस्राणि जघ्नुरन्योन्यमाहवे
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते
ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत
व्यमुह्यन्त रणे तत्र तमसा संवृते सति
तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम्
अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा
कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः
बभूव लोके तमसा तथा संजय संवृते
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत्
द्रोणः पुरस्ताज्जघने तु शल्य;स्तथा द्रौणिः पार्श्वतः सौबलश्च
स्वयं तु सर्वाणि बलानि राज;न्राजाभ्ययाद्गोपयन्वै निशायाम्
उवाच सर्वांश्च पदातिसंघा;न्दुर्योधनः पार्थिव सान्त्वपूर्वम्
उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर्ज्वलितान्प्रदीपान्
ते चोदिताः पार्थिवसत्तमेन; ततः प्रहृष्टा जगृहुः प्रदीपान्
सा भूय एव ध्वजिनी विभक्ता; व्यरोचताग्निप्रभया निशायाम्
महाधनैराभरणैश्च दिव्यैः; शस्त्रैः प्रदीप्तैरभिसंपतद्भिः
क्षणेन सर्वे विहिताः प्रदीपा; व्यदीपयंश्च ध्वजिनीं तदाशु
सर्वास्तु सेना व्यतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः
प्रकाश्यमाना ददृशुर्निशायां; यथान्तरिक्षे जलदास्तडिद्भिः
प्रकाशितायां तु तथा ध्वजिन्यां; द्रोणोऽग्निकल्पः प्रतपन्समन्तात्
रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली
जाम्बूनदेष्वाभरणेषु चैव; निष्केषु शुद्धेषु शरावरेषु
पीतेषु शस्त्रेषु च पावकस्य; प्रतिप्रभास्तत्र ततो बभूवुः
गदाश्च शैक्याः परिघाश्च शुभ्रा; रथेषु शक्त्यश्च विवर्तमानाः
प्रतिप्रभा रश्मिभिराजमीढ; पुनः पुनः संजनयन्ति दीप्ताः
छत्राणि बालव्यजनानुषङ्गा; दीप्ता महोल्काश्च तथैव राजन्
व्याघूर्णमानाश्च सुवर्णमाला; व्यायच्छतां तत्र तदा विरेजुः
शस्त्रप्रभाभिश्च विराजमानं; दीपप्रभाभिश्च तदा बलं तत्
प्रकाशितं चाभरणप्रभाभि;र्भृशं प्रकाशं नृपते बभूव
पीतानि शस्त्राण्यसृगुक्षितानि; वीरावधूतानि तनुद्रुहाणि
दीप्तां प्रभां प्राजनयन्त तत्र; तपात्यये विद्युदिवान्तरिक्षे
प्रकम्पितानामभिघातवेगै;रभिघ्नतां चापततां जवेन
वक्त्राण्यशोभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि
महावने दाव इव प्रदीप्ते; यथा प्रभा भास्करस्यापि नश्येत्
तथा तवासीद्ध्वजिनी प्रदीप्ता; महाभये भारत भीमरूपा
तत्संप्रदीप्तं बलमस्मदीयं; निशाम्य पार्थास्त्वरितास्तथैव
सर्वेषु सैन्येषु पदातिसंघा;नचोदयंस्तेऽथ चक्रुः प्रदीपान्
गजे गजे सप्त कृताः प्रदीपा; रथे रथे चैव दश प्रदीपाः
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये; ध्वजेषु चान्ये जघनेषु चान्ये
सेनासु सर्वासु च पार्श्वतोऽन्ये; पश्चात्पुरस्ताच्च समन्ततश्च
मध्ये तथान्ये ज्वलिताग्निहस्ताः; सेनाद्वयेऽपि स्म नरा विचेरुः
सर्वेषु सैन्येषु पदातिसंघा; व्यामिश्रिता हस्तिरथाश्ववृन्दैः
मध्ये तथान्ये ज्वलिताग्निहस्ता; व्यदीपयन्पाण्डुसुतस्य सेनाम्
तेन प्रदीप्तेन तथा प्रदीप्तं; बलं तदासीद्बलवद्बलेन
भाः कुर्वता भानुमता ग्रहेण; दिवाकरेणाग्निरिवाभितप्तः
तयोः प्रभाः पृथिवीमन्तरिक्षं; सर्वा व्यतिक्रम्य दिशश्च वृद्धाः
तेन प्रकाशेन भृशं प्रकाशं; बभूव तेषां तव चैव सैन्यम्
तेन प्रकाशेन दिवंगमेन; संबोधिता देवगणाश्च राजन्
गन्धर्वयक्षासुरसिद्धसंघाः; समागमन्नप्सरसश्च सर्वाः