Drona Parva, Adhyaya 135, Verse 1
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः
प्रत्युवाच महाबाहो यथा वदसि कौरव
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः
प्रत्युवाच महाबाहो यथा वदसि कौरव
प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे
तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत्
अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम
ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे
युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युयुत्सताम्
तेजस्तु तेज आसाद्य प्रशमं याति भारत
अशक्या तरसा जेतुं पाण्डवानामनीकिनी
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते
आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत
त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव
सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे
अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः
एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन
योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान्
पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा
पाण्डवेयैश्च संग्रामे त्वत्प्रियार्थमरिंदम
अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम्
अश्वत्थाममयं लोकं मंस्यते सह सोमकैः
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः
दृष्ट्वा विनिहतान्संख्ये पाञ्चालान्सोमकैः सह
ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत
न हि ते वीर मुच्येरन्मद्बाह्वन्तरमागताः
एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव
अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः
ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः
प्रहरध्वमितः सर्वे मम गात्रे महारथाः
स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम्
एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन्
द्रौणिं प्रति महाराज जलं जलधरा इव
तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत्
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो
ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश
तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान्
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि
ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम्
वृतः शतेन शूराणां रथानामनिवर्तिनाम्
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान्
आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव
समागच्छ मया सार्धं यदि शूरोऽसि संयुगे
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः
ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान्
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ
ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम्
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः
मानी द्रौणिरसंभ्रान्तो बाणपाणिरभाषत
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम्
द्रौणिरेवमथाभाष्य पार्षतं परवीरहा
छादयामास बाणौघैः समन्ताल्लघुहस्तवत्
स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते
ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे