Drona Parva, Adhyaya 134, Verse 1
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम्
खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम्
Containing 81 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम्
खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम्
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते
तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम्
न्यवारयन्महाराज कृपश्च द्विपदां वरः
शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम
तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद
कोपः खलु न कर्तव्यः सूतपुत्रे कथंचन
त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले
महत्कार्यं समायत्तं प्रसीद द्विजसत्तम
एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान्
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः
संरब्धस्य महाराज सिंहनादविनादितम्
ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन्
अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम
अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन्
हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता
अत्यन्तवैरी पार्थानां सततं पापपूरुषः
एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः
हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन्
महता शरवर्षेण छादयन्तो महारथाः
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान्
न विव्यथे सूतपुत्रो न च त्रासमगच्छत
दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम्
पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः
सायकौघेन बलवान्क्षिप्रकारी महाबलः
वारयामास तत्सैन्यं समन्ताद्भरतर्षभ
ततस्तु शरवर्षेण पार्थिवास्तमवारयन्
धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः
अयोधयन्त राधेयं शक्रं दैत्यगणा इव
शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम्
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम्
यथा देवासुरे युद्धे शक्रस्य सह दानवैः
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम्
यदेनं समरे यत्ता नाप्नुवन्त परे युधि
निवार्य च शरौघांस्तान्पार्थिवानां महारथः
युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च
आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान्
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः
बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव
हयानां वध्यमानानां गजानां रथिनां तथा
तत्र तत्राभ्यवेक्षामः संघान्कर्णेन पातितान्
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम्
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम्
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम्
अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः
पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम्
कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव