Mahabharata

Drona Parva, Adhyaya 132

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 132, Verse 1

द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा

द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः

Mahabharata

Drona Parva, Adhyaya 132, Verse 2

युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः

युयुधानश्च संयत्ता युद्धायैव मनो दधुः

Mahabharata

Drona Parva, Adhyaya 132, Verse 3

सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे

महता शरवर्षेण छादयामास सर्वतः

Mahabharata

Drona Parva, Adhyaya 132, Verse 4

ततः समभवद्युद्धमतीव भयवर्धनम्

त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम्

Mahabharata

Drona Parva, Adhyaya 132, Verse 5

दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम्

सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत

Mahabharata

Drona Parva, Adhyaya 132, Verse 6

सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम्

वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम्

Mahabharata

Drona Parva, Adhyaya 132, Verse 7

विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः

शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः

Mahabharata

Drona Parva, Adhyaya 132, Verse 8

ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम्

मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि

Mahabharata

Drona Parva, Adhyaya 132, Verse 9

सात्यकिश्चाग्निसंकाशं मुमोच शरमुत्तमम्

सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि

Mahabharata

Drona Parva, Adhyaya 132, Verse 10

युगपत्पेततुरथ घोरौ परिघमार्गणौ

शरीरे सोमदत्तस्य स पपात महारथः

Mahabharata

Drona Parva, Adhyaya 132, Verse 11

व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत्

विसृजञ्शरवर्षाणि कालवर्षीव तोयदः

Mahabharata

Drona Parva, Adhyaya 132, Verse 12

भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः

पीडयन्वै महात्मानं विव्याध रणमूर्धनि

Mahabharata

Drona Parva, Adhyaya 132, Verse 13

प्रातिपीयस्तु संक्रुद्धः शक्तिं भीमस्य वक्षसि

निचखान महाबाहुः पुरंदर इवाशनिम्

Mahabharata

Drona Parva, Adhyaya 132, Verse 14

स तयाभिहतो भीमश्चकम्पे च मुमोह च

प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह

Mahabharata

Drona Parva, Adhyaya 132, Verse 15

सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत्

स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट्

Mahabharata

Drona Parva, Adhyaya 132, Verse 16

तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे

पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः

Mahabharata

Drona Parva, Adhyaya 132, Verse 17

नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान्

कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत्

Mahabharata

Drona Parva, Adhyaya 132, Verse 18

ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः

जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली

Mahabharata

Drona Parva, Adhyaya 132, Verse 19

ततः सप्त रथान्वीरः स्यालानां तव भारत

निहत्य भीमो नाराचैः शतचन्द्रमपोथयत्

Mahabharata

Drona Parva, Adhyaya 132, Verse 20

अमर्षयन्तो निहतं शतचन्द्रं महारथम्

शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः

अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन्

Mahabharata

Drona Parva, Adhyaya 132, Verse 21

स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः

जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान्

तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः

Mahabharata

Drona Parva, Adhyaya 132, Verse 22

ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत्

मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ

Mahabharata

Drona Parva, Adhyaya 132, Verse 23

अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि

प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः

Mahabharata

Drona Parva, Adhyaya 132, Verse 24

अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान्

निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम्

Mahabharata

Drona Parva, Adhyaya 132, Verse 25

यौधेयारट्टराजन्यमद्रकाणां गणान्युधि

प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः

Mahabharata

Drona Parva, Adhyaya 132, Verse 26

हताहरत गृह्णीत विध्यत व्यवकृन्तत

इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति

Mahabharata

Drona Parva, Adhyaya 132, Verse 27

सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम्

चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत्

Mahabharata

Drona Parva, Adhyaya 132, Verse 28

द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम्

विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान्

Mahabharata

Drona Parva, Adhyaya 132, Verse 29

तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे

वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च

चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम्

Mahabharata

Drona Parva, Adhyaya 132, Verse 30

क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः

जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन्