Drona Parva, Adhyaya 130, Verse 1
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत
निहते सैन्धवे वीरे भूरिश्रवसि चैव हि
यदभ्यगान्महातेजाः पाञ्चालानपराजितः
किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम्
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः
के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान्
शिशिरे कम्पमाना वै कृशा गाव इवाभिभो
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्
सर्वेषु सैन्येषु च संगतेषु; रात्रौ समेतेषु महारथेषु
संलोड्यमानेषु पृथग्विधेषु; के वस्तदानीं मतिमन्त आसन्
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्
कथमेषां तदा तत्र पार्थानामपलायिनाम्
प्रकाशमभवद्रात्रौ कथं कुरुषु संजय
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे
द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान्
प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः
तान्सर्वान्प्रेषयामास परलोकाय भारत
प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम्
अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान्
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम्
विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत्
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः
अथास्य सशिरस्त्राणं शिरः कायादपाहरत्
कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे
पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत्
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः
रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक्
तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः
ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत्
स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत्
तं निहत्य महाराज भीमसेनो महाबलः
जयरातरथं प्राप्य मुहुः सिंह इवानदत्
जयरातमथाक्षिप्य नदन्सव्येन पाणिना
तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम्
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः
तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना
ततस्तव सुता राजन्भीमस्य रथमाव्रजन्
महता शरवर्षेण छादयन्तो वृकोदरम्
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम्
दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे
तावेकरथमारूढौ भ्रातरौ परतापनौ
संग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम्
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्