Mahabharata

Drona Parva, Adhyaya 129

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 129, Verse 1

यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी

उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम्

Mahabharata

Drona Parva, Adhyaya 129, Verse 2

प्रविश्य विचरन्तं च रणे शूरमवस्थितम्

कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन्

Mahabharata

Drona Parva, Adhyaya 129, Verse 3

केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः

के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे

Mahabharata

Drona Parva, Adhyaya 129, Verse 4

नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः

धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्

Mahabharata

Drona Parva, Adhyaya 129, Verse 5

सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च

सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम्

Mahabharata

Drona Parva, Adhyaya 129, Verse 6

तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः

पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम्

Mahabharata

Drona Parva, Adhyaya 129, Verse 7

तथैव नकुलो धीमान्सहदेवश्च दुर्जयः

धृष्टद्युम्नः शतानीको विराटश्च सकेकयः

मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि

Mahabharata

Drona Parva, Adhyaya 129, Verse 8

द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः

धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत

Mahabharata

Drona Parva, Adhyaya 129, Verse 9

द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः

ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम्

Mahabharata

Drona Parva, Adhyaya 129, Verse 10

प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः

द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम्

Mahabharata

Drona Parva, Adhyaya 129, Verse 11

तथेतरे नरव्याघ्राः पाण्डवानां महारथाः

सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम्

Mahabharata

Drona Parva, Adhyaya 129, Verse 12

तेषु शूरेषु युद्धाय गतेषु भरतर्षभ

बभूव रजनी घोरा भीरूणां भयवर्धिनी

Mahabharata

Drona Parva, Adhyaya 129, Verse 13

योधानामशिवा रौद्रा राजन्नन्तकगामिनी

कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा

Mahabharata

Drona Parva, Adhyaya 129, Verse 14

तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः

न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः

Mahabharata

Drona Parva, Adhyaya 129, Verse 15

उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्

विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम्

Mahabharata

Drona Parva, Adhyaya 129, Verse 16

ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान्

भेरीशब्देन महता मृदङ्गानां स्वनेन च

Mahabharata

Drona Parva, Adhyaya 129, Verse 17

गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः

खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत्

Mahabharata

Drona Parva, Adhyaya 129, Verse 18

ततः समभवद्युद्धं संध्यायामतिदारुणम्

द्रोणस्य च महाराज सृञ्जयानां च सर्वशः

Mahabharata

Drona Parva, Adhyaya 129, Verse 19

तमसा चावृते लोके न प्राज्ञायत किंचन

सैन्येन रजसा चैव समन्तादुत्थितेन ह

Mahabharata

Drona Parva, Adhyaya 129, Verse 20

नरस्याश्वस्य नागस्य समसज्जत शोणितम्

नापश्याम रजो भौमं कश्मलेनाभिसंवृताः

Mahabharata

Drona Parva, Adhyaya 129, Verse 21

रात्रौ वंशवनस्येव दह्यमानस्य पर्वते

घोरश्चटचटाशब्दः शस्त्राणां पततामभूत्

Mahabharata

Drona Parva, Adhyaya 129, Verse 22

नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते

उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे

Mahabharata

Drona Parva, Adhyaya 129, Verse 23

भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम्

शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात्

Mahabharata

Drona Parva, Adhyaya 129, Verse 24

ततः सा भारती सेना मणिहेमविभूषिता

द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ

Mahabharata

Drona Parva, Adhyaya 129, Verse 25

गोमायुबडसंघुष्टा शक्तिध्वजसमाकुला

दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता

Mahabharata

Drona Parva, Adhyaya 129, Verse 26

ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः

समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः

Mahabharata

Drona Parva, Adhyaya 129, Verse 27

सा निशीथे महाराज सेनादृश्यत भारती

अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता

Mahabharata

Drona Parva, Adhyaya 129, Verse 28

तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः

निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः

Mahabharata

Drona Parva, Adhyaya 129, Verse 29

ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः

संपतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः

Mahabharata

Drona Parva, Adhyaya 129, Verse 30

दुर्योधनपुरोवातां रथनागबलाहकाम्

वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम्