Drona Parva, Adhyaya 128, Verse 1
तदुदीर्णगजाश्वौघं बलं तव जनाधिप
पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
तदुदीर्णगजाश्वौघं बलं तव जनाधिप
पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः
पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम्
यमराष्ट्राय महते परलोकाय दीक्षिताः
शूराः शूरैः समागम्य शरतोमरशक्तिभिः
विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम्
रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम्
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम्
वारणाश्च महाराज समासाद्य परस्परम्
विषाणैर्दारयामासुः संक्रुद्धाश्च मदोत्कटाः
हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः
पत्तयश्च महाबाहो शतशः शस्त्रपाणयः
अन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे
गोत्राणां नामधेयानां कुलानां चैव मारिष
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह
अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः
प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत्
शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः
न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च
तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः
दुर्योधनो महाराज व्यवगाहत तद्बलम्
सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः
मर्तव्यमिति संचिन्त्य प्राविशत्तु द्विषद्बलम्
नादयन्रथघोषेण कम्पयन्निव मेदिनीम्
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम्
स संनिपातस्तुमुलस्तस्य तेषां च भारत
अभवत्सर्वसैन्यानामभावकरणो महान्
मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः
तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः
न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम्
पलायने कृतोत्साहा निरुत्साहा द्विषज्जये
पर्यधावन्त पाञ्चाला वध्यमाना महात्मना
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः
न तादृशं रणे कर्म कृतवन्तस्तु तावकाः
यादृशं कृतवान्राजा पुत्रस्तव विशां पते
पुत्रेण तव सा सेना पाण्डवी मथिता रणे
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा
क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन्
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः
सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत्
शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः
तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष
विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः
मर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिमाविशन्
ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम्
वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम्
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष
शरं परमदुर्वारं प्रेषयामास संयुगे
स तेन भृशसंविद्धो निषसाद रथोत्तमे
ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान्
हतो राजेति राजेन्द्र मुदितानां समन्ततः