Drona Parva, Adhyaya 126, Verse 1
सिन्धुराजे हते तात समरे सव्यसाचिना
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
सिन्धुराजे हते तात समरे सव्यसाचिना
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा
दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व संजय
निष्टानको महानासीत्सैन्यानां तव भारत
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे
येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः
मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत
दुर्योधन किमेवं मां वाक्शरैरभिकृन्तसि
अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम्
एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना
अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः
तदैवाज्ञासिषमहं नेयमस्तीति भारती
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि
तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे
यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः
त एते घ्नन्ति नस्तात विशिखा जयचोदिताः
यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे
तास्ता विलपतश्चापि विदुरस्य महात्मनः
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः
तदिदं वर्तते घोरमागतं वैशसं महत्
तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव
यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम्
अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम्
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया
नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम्
यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह
प्राव्राजयस्तदारण्ये रौरवाजिनवाससः
पुत्राणामिव चैतेषां धर्ममाचरतां सदा
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः
पाण्डवानामयं कोपस्त्वया शकुनिना सह
आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः
क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः
यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम्
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः
कथं त्वयि च कर्णे च कृपे शल्ये च जीवति
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत्
यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते
सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः
मय्येव हि विशेषेण तथा दुर्योधन त्वयि
आशंसत परित्राणमर्जुनात्स महीपतिः
ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात्
न किंचिदनुपश्यामि जीवितत्राणमात्मनः
मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना
तन्मा किमभितप्यन्तं वाक्शरैरभिकृन्तसि
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत
सौवर्णं सत्यसंधस्य ध्वजमक्लिष्टकर्मणः
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम्
मध्ये महारथानां च यत्राहन्यत सैन्धवः
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे
कृप एव च दुर्धर्षो यदि जीवति पार्थिव
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम्
यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम्
अवध्यकल्पं संग्रामे देवैरपि सवासवैः