Mahabharata

Drona Parva, Adhyaya 125

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 125, Verse 1

सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः

अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये

अमन्यतार्जुनसमो योधो भुवि न विद्यते

Mahabharata

Drona Parva, Adhyaya 125, Verse 2

न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च

क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष

Mahabharata

Drona Parva, Adhyaya 125, Verse 3

निर्जित्य हि रणे पार्थः सर्वान्मम महारथान्

अवधीत्सैन्धवं संख्ये नैनं कश्चिदवारयत्

Mahabharata

Drona Parva, Adhyaya 125, Verse 4

सर्वथा हतमेवैतत्कौरवाणां महद्बलम्

न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः

Mahabharata

Drona Parva, Adhyaya 125, Verse 5

यमुपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः

स कर्णो निर्जितः संख्ये हतश्चैव जयद्रथः

Mahabharata

Drona Parva, Adhyaya 125, Verse 6

परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान्

स कर्णो निर्जितः संख्ये सैन्धवश्च निपातितः

Mahabharata

Drona Parva, Adhyaya 125, Verse 7

यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम्

तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि

Mahabharata

Drona Parva, Adhyaya 125, Verse 8

एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम्

आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ

Mahabharata

Drona Parva, Adhyaya 125, Verse 9

ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत्

परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः

Mahabharata

Drona Parva, Adhyaya 125, Verse 10

पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम्

कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम्

Mahabharata

Drona Parva, Adhyaya 125, Verse 11

तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः

पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति

Mahabharata

Drona Parva, Adhyaya 125, Verse 12

अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना

अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः

Mahabharata

Drona Parva, Adhyaya 125, Verse 13

अस्मद्विजयकामानां सुहृदामुपकारिणाम्

गन्तास्मि कथमानृण्यं गतानां यमसादनम्

Mahabharata

Drona Parva, Adhyaya 125, Verse 14

ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः

ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते

Mahabharata

Drona Parva, Adhyaya 125, Verse 15

सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम्

नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे

Mahabharata

Drona Parva, Adhyaya 125, Verse 16

मम लुब्धस्य पापस्य तथा धर्मापचायिनः

व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम्

Mahabharata

Drona Parva, Adhyaya 125, Verse 17

कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः

विवरं नाशकद्दातुं मम पार्थिवसंसदि

Mahabharata

Drona Parva, Adhyaya 125, Verse 18

सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम्

शयानं नाशकं त्रातुं भीष्ममायोधने हतम्

Mahabharata

Drona Parva, Adhyaya 125, Verse 19

तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम्

किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित्

Mahabharata

Drona Parva, Adhyaya 125, Verse 20

जलसंधं महेष्वासं पश्य सात्यकिना हतम्

मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम्

Mahabharata

Drona Parva, Adhyaya 125, Verse 21

काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च

अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम

Mahabharata

Drona Parva, Adhyaya 125, Verse 22

व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः

यतमानाः परं शक्त्या विजेतुमहितान्मम

Mahabharata

Drona Parva, Adhyaya 125, Verse 23

तेषां गत्वाहमानृण्यमद्य शक्त्या परंतप

तर्पयिष्यामि तानेव जलेन यमुनामनु

Mahabharata

Drona Parva, Adhyaya 125, Verse 24

सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर

इष्टापूर्तेन च शपे वीर्येण च सुतैरपि

Mahabharata

Drona Parva, Adhyaya 125, Verse 25

निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह

शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम्

Mahabharata

Drona Parva, Adhyaya 125, Verse 26

न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः

श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज

Mahabharata

Drona Parva, Adhyaya 125, Verse 27

स्वयं हि मृत्युर्विहितः सत्यसंधेन संयुगे

भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनंजये

Mahabharata

Drona Parva, Adhyaya 125, Verse 28

अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः

कर्णमेव तु पश्यामि संप्रत्यस्मज्जयैषिणम्

Mahabharata

Drona Parva, Adhyaya 125, Verse 29

यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः

मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति

Mahabharata

Drona Parva, Adhyaya 125, Verse 30

तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः

मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः