Mahabharata

Drona Parva, Adhyaya 121

Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 121, Verse 1

स रणे व्यचरत्पार्थः प्रेक्षणीयो धनंजयः

युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन्

Mahabharata

Drona Parva, Adhyaya 121, Verse 2

मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे

न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्

Mahabharata

Drona Parva, Adhyaya 121, Verse 3

प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः

संग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे

Mahabharata

Drona Parva, Adhyaya 121, Verse 4

विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः

दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः

Mahabharata

Drona Parva, Adhyaya 121, Verse 5

स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः

मोहयन्निव नाराचैर्जयद्रथवधेप्सया

Mahabharata

Drona Parva, Adhyaya 121, Verse 6

विसृजन्दिक्षु सर्वासु शरानसितसारथिः

स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनंजयः

Mahabharata

Drona Parva, Adhyaya 121, Verse 7

भ्रमन्त इव शूरस्य शरव्राता महात्मनः

अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः

Mahabharata

Drona Parva, Adhyaya 121, Verse 8

आददानं महेष्वासं संदधानं च पाण्डवम्

विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा

Mahabharata

Drona Parva, Adhyaya 121, Verse 9

तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे

आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्

विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम्

Mahabharata

Drona Parva, Adhyaya 121, Verse 10

सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना

न चक्षमे सुसंक्रुद्धस्तोत्त्रार्दित इव द्विपः

Mahabharata

Drona Parva, Adhyaya 121, Verse 11

स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान्

आशीविषसमप्रख्यान्कर्मारपरिमार्जितान्

मुमोच निशितान्संख्ये सायकान्सव्यसाचिनि

Mahabharata

Drona Parva, Adhyaya 121, Verse 12

त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम्

अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा

Mahabharata

Drona Parva, Adhyaya 121, Verse 13

स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान्

युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह

सारथेश्च शिरः कायाद्ध्वजं च समलंकृतम्

Mahabharata

Drona Parva, Adhyaya 121, Verse 14

स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः

वराहः सिन्धुराजस्य पपाताग्निशिखोपमः

Mahabharata

Drona Parva, Adhyaya 121, Verse 15

एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे

अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः

Mahabharata

Drona Parva, Adhyaya 121, Verse 16

धनंजय शिरश्छिन्धि सैन्धवस्य दुरात्मनः

अस्तं महीधरश्रेष्ठं यियासति दिवाकरः

शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति

Mahabharata

Drona Parva, Adhyaya 121, Verse 17

वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः

स कालेनेह महता सैन्धवं प्राप्तवान्सुतम्

Mahabharata

Drona Parva, Adhyaya 121, Verse 18

जयद्रथममित्रघ्नं तं चोवाच ततो नृपम्

अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना

Mahabharata

Drona Parva, Adhyaya 121, Verse 19

तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः

गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः

क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः

Mahabharata

Drona Parva, Adhyaya 121, Verse 20

शत्रुभिर्युध्यमानस्य संग्रामे त्वस्य धन्विनः

शिरश्छेत्स्यति संक्रुद्धः शत्रुर्नालक्षितो भुवि

Mahabharata

Drona Parva, Adhyaya 121, Verse 21

एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम

ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः

Mahabharata

Drona Parva, Adhyaya 121, Verse 22

संग्रामे युध्यमानस्य वहतो महतीं धुरम्

धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः

तस्यापि शतधा मूर्धा फलिष्यति न संशयः

Mahabharata

Drona Parva, Adhyaya 121, Verse 23

एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्

वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः

Mahabharata

Drona Parva, Adhyaya 121, Verse 24

सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम्

समन्तपञ्चकादस्माद्बहिर्वानरकेतन

Mahabharata

Drona Parva, Adhyaya 121, Verse 25

तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे

दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा

Mahabharata

Drona Parva, Adhyaya 121, Verse 26

सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज

उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत

Mahabharata

Drona Parva, Adhyaya 121, Verse 27

अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले

तवापि शतधा मूर्धा फलिष्यति न संशयः

Mahabharata

Drona Parva, Adhyaya 121, Verse 28

यथा चैतन्न जानीयात्स राजा पृथिवीपतिः

तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः

Mahabharata

Drona Parva, Adhyaya 121, Verse 29

न ह्यसाध्यमकार्यं वा विद्यते तव किंचन

समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन

Mahabharata

Drona Parva, Adhyaya 121, Verse 30

एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन्

इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम्