Mahabharata

Drona Parva, Adhyaya 118

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 118, Verse 1

स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः

आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः

Mahabharata

Drona Parva, Adhyaya 118, Verse 2

प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना

वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः

Mahabharata

Drona Parva, Adhyaya 118, Verse 3

स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः

उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम्

Mahabharata

Drona Parva, Adhyaya 118, Verse 4

नृशंसं बत कौन्तेय कर्मेदं कृतवानसि

अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः

Mahabharata

Drona Parva, Adhyaya 118, Verse 5

किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम्

किं कुर्वाणो मया संख्ये हतो भूरिश्रवा इति

Mahabharata

Drona Parva, Adhyaya 118, Verse 6

इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना

अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा

Mahabharata

Drona Parva, Adhyaya 118, Verse 7

ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः

अयुध्यमानस्य कथं रणे प्रहृतवानसि

Mahabharata

Drona Parva, Adhyaya 118, Verse 8

न प्रमत्ताय भीताय विरथाय प्रयाचते

व्यसने वर्तमानाय प्रहरन्ति मनस्विनः

Mahabharata

Drona Parva, Adhyaya 118, Verse 9

इदं तु नीचाचरितमसत्पुरुषसेवितम्

कथमाचरितं पार्थ त्वया कर्म सुदुष्करम्

Mahabharata

Drona Parva, Adhyaya 118, Verse 10

आर्येण सुकरं ह्याहुरार्यकर्म धनंजय

अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि

Mahabharata

Drona Parva, Adhyaya 118, Verse 11

येषु येषु नरः पार्थ यत्र यत्र च वर्तते

आशु तच्छीलतामेति तदिदं त्वयि दृश्यते

Mahabharata

Drona Parva, Adhyaya 118, Verse 12

कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः

क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः

Mahabharata

Drona Parva, Adhyaya 118, Verse 13

इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया

वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते

Mahabharata

Drona Parva, Adhyaya 118, Verse 14

को हि नाम प्रमत्ताय परेण सह युध्यते

ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत्

Mahabharata

Drona Parva, Adhyaya 118, Verse 15

व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः

वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः

Mahabharata

Drona Parva, Adhyaya 118, Verse 16

एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः

युयुधानं परित्यज्य रणे प्रायमुपाविशत्

Mahabharata

Drona Parva, Adhyaya 118, Verse 17

शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः

यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत्

Mahabharata

Drona Parva, Adhyaya 118, Verse 18

सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः

ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः

Mahabharata

Drona Parva, Adhyaya 118, Verse 19

ततः स सर्वसेनायां जनः कृष्णधनंजयौ

गर्हयामास तं चापि शशंस पुरुषर्षभम्

Mahabharata

Drona Parva, Adhyaya 118, Verse 20

निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम्

प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः

Mahabharata

Drona Parva, Adhyaya 118, Verse 21

तांस्तथा वादिनो राजन्पुत्रांस्तव धनंजयः

अमृष्यमाणो मनसा तेषां तस्य च भाषितम्

Mahabharata

Drona Parva, Adhyaya 118, Verse 22

असंक्रुद्धमना वाचा स्मारयन्निव भारत

उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः

Mahabharata

Drona Parva, Adhyaya 118, Verse 23

मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम्

न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे

Mahabharata

Drona Parva, Adhyaya 118, Verse 24

यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि

न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम्

Mahabharata

Drona Parva, Adhyaya 118, Verse 25

आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः

यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः

Mahabharata

Drona Parva, Adhyaya 118, Verse 26

न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः

अभिमन्योर्वधं तात धार्मिकः को न पूजयेत्

Mahabharata

Drona Parva, Adhyaya 118, Verse 27

एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत्

पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम्

Mahabharata

Drona Parva, Adhyaya 118, Verse 28

एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः

यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः

Mahabharata

Drona Parva, Adhyaya 118, Verse 29

या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे

नकुले सहदेवे च सा मे त्वयि शलाग्रज

Mahabharata

Drona Parva, Adhyaya 118, Verse 30

मया तु समनुज्ञातः कृष्णेन च महात्मना

गच्छ पुण्यकृताँल्लोकाञ्शिबिरौशीनरो यथा