Drona Parva, Adhyaya 116, Verse 1
तमुद्यतं महाबाहुं दुःशासनरथं प्रति
त्वरितं त्वरणीयेषु धनंजयहितैषिणम्
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
तमुद्यतं महाबाहुं दुःशासनरथं प्रति
त्वरितं त्वरणीयेषु धनंजयहितैषिणम्
त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः
सेनासमुद्रमाविष्टमानर्तं पर्यवारयन्
अथैनं रथवंशेन सर्वतः संनिवार्य ते
अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः
अजयद्राजपुत्रांस्तान्यतमानान्महारणे
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः
संप्राप्य भारतीमध्यं तलघोषसमाकुलम्
असिशक्तिगदापूर्णमप्लवं सलिलं यथा
तत्राद्भुतमपश्याम शैनेयचरितं रणे
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात्
उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः
त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति
तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन्
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः
तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्
अथ पार्थं महाबाहुर्धनंजयमुपासदत्
तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत्
तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत्
असावायाति शैनेयस्तव पार्थ पदानुगः
एष शिष्यः सखा चैव तव सत्यपराक्रमः
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः
एष कौरवयोधानां कृत्वा घोरमुपद्रवम्
तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः
एष द्रोणं तथा भोजं कृतवर्माणमेव च
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः
धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान्
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः
बहूनेकरथेनाजौ योधयित्वा महारथान्
आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः
स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्
प्रेषितो धर्मपुत्रेण पार्थैषोऽभ्येति सात्यकिः
यस्य नास्ति समो योधः कौरवेषु कथंचन
सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव
निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः
एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः
एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे
निहत्य जलसंधं च क्षिप्रमायाति सात्यकिः
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्
तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः
ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः
न हि जानामि वृत्तान्तं धर्मराजस्य केशव
सात्वतेन विहीनः स यदि जीवति वा न वा
एतेन हि महाबाहो रक्षितव्यः स पार्थिवः
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः
राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः
प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे
सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः