Mahabharata

Drona Parva, Adhyaya 115

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 115, Verse 1

अहन्यहनि मे दीप्तं यशः पतति संजय

हता मे बहवो योधा मन्ये कालस्य पर्ययम्

Mahabharata

Drona Parva, Adhyaya 115, Verse 2

धनंजयस्तु संक्रुद्धः प्रविष्टो मामकं बलम्

रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि

Mahabharata

Drona Parva, Adhyaya 115, Verse 3

ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः

सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च

Mahabharata

Drona Parva, Adhyaya 115, Verse 4

तदा प्रभृति मा शोको दहत्यग्निरिवाशयम्

ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान्

Mahabharata

Drona Parva, Adhyaya 115, Verse 5

अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः

चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः

Mahabharata

Drona Parva, Adhyaya 115, Verse 6

अनुमानाच्च पश्यामि नास्ति संजय सैन्धवः

युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः

Mahabharata

Drona Parva, Adhyaya 115, Verse 7

यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत्

एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः

Mahabharata

Drona Parva, Adhyaya 115, Verse 8

तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम्

धनंजयार्थे यत्तस्य कुशलो ह्यसि संजय

Mahabharata

Drona Parva, Adhyaya 115, Verse 9

तथा तु वैकर्तनपीडितं तं; भीमं प्रयान्तं पुरुषप्रवीरम्

समीक्ष्य राजन्नरवीरमध्ये; शिनिप्रवीरोऽनुययौ रथेन

Mahabharata

Drona Parva, Adhyaya 115, Verse 10

नदन्यथा वज्रधरस्तपान्ते; ज्वलन्यथा जलदान्ते च सूर्यः

निघ्नन्नमित्रान्धनुषा दृढेन; संकम्पयंस्तव पुत्रस्य सेनाम्

Mahabharata

Drona Parva, Adhyaya 115, Verse 11

तं यान्तमश्वै रजतप्रकाशै;रायोधने नरवीरं चरन्तम्

नाशक्नुवन्वारयितुं त्वदीयाः; सर्वे रथा भारत माधवाग्र्यम्

Mahabharata

Drona Parva, Adhyaya 115, Verse 12

अमर्षपूर्णस्त्वनिवृत्तयोधी; शरासनी काञ्चनवर्मधारी

अलम्बुसः सात्यकिं माधवाग्र्य;मवारयद्राजवरोऽभिपत्य

Mahabharata

Drona Parva, Adhyaya 115, Verse 13

तयोरभूद्भारत संप्रहार;स्तथागतो नैव बभूव कश्चित्

प्रैक्षन्त एवाहवशोभिनौ तौ; योधास्त्वदीयाश्च परे च सर्वे

Mahabharata

Drona Parva, Adhyaya 115, Verse 14

अविध्यदेनं दशभिः पृषत्कै;रलम्बुसो राजवरः प्रसह्य

अनागतानेव तु तान्पृषत्कां;श्चिच्छेद बाणैः शिनिपुंगवोऽपि

Mahabharata

Drona Parva, Adhyaya 115, Verse 15

पुनः स बाणैस्त्रिभिरग्निकल्पै;राकर्णपूर्णैर्निशितैः सुपुङ्खैः

विव्याध देहावरणं विदार्य; ते सात्यकेराविविशुः शरीरम्

Mahabharata

Drona Parva, Adhyaya 115, Verse 16

तैः कायमस्याग्न्यनिलप्रभावै;र्विदार्य बाणैरपरैर्ज्वलद्भिः

आजघ्निवांस्तान्रजतप्रकाशा;नश्वांश्चतुर्भिश्चतुरः प्रसह्य

Mahabharata

Drona Parva, Adhyaya 115, Verse 17

तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेश्चक्रधरप्रभावः

अलम्बुसस्योत्तमवेगवद्भि;र्हयांश्चतुर्भिर्निजघान बाणैः

Mahabharata

Drona Parva, Adhyaya 115, Verse 18

अथास्य सूतस्य शिरो निकृत्य; भल्लेन कालानलसंनिभेन

सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात्

Mahabharata

Drona Parva, Adhyaya 115, Verse 19

निहत्य तं पार्थिवपुत्रपौत्रं; संख्ये मधूनामृषभः प्रमाथी

ततोऽन्वयादर्जुनमेव वीरः; सैन्यानि राजंस्तव संनिवार्य

Mahabharata

Drona Parva, Adhyaya 115, Verse 20

अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम्

घ्नन्तं कुरूणामिषुभिर्बलानि; पुनः पुनर्वायुरिवाभ्रपूगान्

Mahabharata

Drona Parva, Adhyaya 115, Verse 21

ततोऽवहन्सैन्धवाः साधु दान्ता; गोक्षीरकुन्देन्दुहिमप्रकाशाः

सुवर्णजालावतताः सदश्वा; यतो यतः कामयते नृसिंहः

Mahabharata

Drona Parva, Adhyaya 115, Verse 22

अथात्मजास्ते सहिताभिपेतु;रन्ये च योधास्त्वरितास्त्वदीयाः

कृत्वा मुखं भारत योधमुख्यं; दुःशासनं त्वत्सुतमाजमीढ

Mahabharata

Drona Parva, Adhyaya 115, Verse 23

ते सर्वतः संपरिवार्य संख्ये; शैनेयमाजघ्नुरनीकसाहाः

स चापि तान्प्रवरः सात्वतानां; न्यवारयद्बाणजालेन वीरः

Mahabharata

Drona Parva, Adhyaya 115, Verse 24

निवार्य तांस्तूर्णममित्रघाती; नप्ता शिनेः पत्रिभिरग्निकल्पैः

दुःशासनस्यापि जघान वाहा;नुद्यम्य बाणासनमाजमीढ