Drona Parva, Adhyaya 113, Verse 1
महानपनयः सूत ममैवात्र विशेषतः
स इदानीमनुप्राप्तो मन्ये संजय शोचतः
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
महानपनयः सूत ममैवात्र विशेषतः
स इदानीमनुप्राप्तो मन्ये संजय शोचतः
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम्
इदानीमत्र किं कार्यं प्रकरिष्यामि संजय
यथा त्वेष क्षयो वृत्तो ममापनयसंभवः
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय
कर्णभीमौ महाराज पराक्रान्तौ महाहवे
बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः
विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम्
तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः
आकीर्यत रणे भीमः शतशोऽथ सहस्रशः
तयोः शरैर्महाराज संपतद्भिः समन्ततः
बभूव तव सैन्यानां संक्षोभः सागरोपमः
भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम
अवध्यत चमूमध्ये घोरैराशीविषोपमैः
वारणैः पतितै राजन्वाजिभिश्च नरैः सह
अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव
ते वध्यमानाः समरे भीमचापच्युतैः शरैः
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन्
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम्
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः
ते शरातुरभूयिष्ठा हताश्वनरवाहनाः
उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम्
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः
एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः
ततः प्रावर्तत नदी घोररूपा महाहवे
बभूव च विशेषेण भीरूणां भयवर्धिनी
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः
जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः
प्रासतोमरसंघातैः खड्गैश्च सपरश्वधैः
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि
शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी
कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि
गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः
तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरा
पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम्
दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम्
निपातितध्वजरथं हतवाजिनरद्विपम्
गजाभ्यां संप्रयुक्ताभ्यामासीन्नडवनं यथा
तथाभूतं महत्सैन्यमासीद्भारत संयुगे
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे