Drona Parva, Adhyaya 112, Verse 1
भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम्
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम्
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम्
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम्
अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात्
तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान्
भीमसेनेन निहतान्विमना दुःखितोऽभवत्
निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात्
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः
बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः
रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः
कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः
विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम्
कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात्
प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः
खं पूरयन्महावेगान्खगमान्खगवाससः
सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान्
तमन्तकमिवायस्तमापतन्तं वृकोदरः
त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः
तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः
महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान्
ततो विधम्याधिरथेः शरजालानि पाण्डवः
विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः
यथैव हि शरैः पार्थः सूतपुत्रेण छादितः
तथैव कर्णं समरे छादयामास पाण्डवः
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत
अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ
कुरुपाण्डवानां प्रवरा दश राजन्महारथाः
साधु साध्विति वेगेन सिंहनादमथानदन्
तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे
अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन्
राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः
कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात्
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे
दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन्
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः
तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः
प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव
ततो वामेन कौन्तेयः पीडयित्वा शरासनम्
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम्
मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान्
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव
भीमसेनो महाराज पूर्ववैरमनुस्मरन्
ते क्षिप्ता भीमसेनेन शरा भारत भारतान्
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः
तेषां विदार्य चेतांसि शरा हेमविभूषिताः
व्यराजन्त महाराज सुपर्णा इव खेचराः
शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः
शत्रुंजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः