Mahabharata

Drona Parva, Adhyaya 111

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 111, Verse 1

तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान्

क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात्

Mahabharata

Drona Parva, Adhyaya 111, Verse 2

आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा

भीमसेनं ततः क्रुद्धः समाद्रवत संभ्रमात्

Mahabharata

Drona Parva, Adhyaya 111, Verse 3

स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव

पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः

Mahabharata

Drona Parva, Adhyaya 111, Verse 4

अवहासं तु तं पार्थो नामृष्यत वृकोदरः

ततो विव्याध राधेयं शतेन नतपर्वणाम्

Mahabharata

Drona Parva, Adhyaya 111, Verse 5

पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः

धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष

Mahabharata

Drona Parva, Adhyaya 111, Verse 6

अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः

इषुभिश्छादयामास भीमसेनं समन्ततः

Mahabharata

Drona Parva, Adhyaya 111, Verse 7

तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम्

प्रजहास महाहासं कृते प्रतिकृतं पुनः

Mahabharata

Drona Parva, Adhyaya 111, Verse 8

इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः

तत्पपात महाराज स्वर्णपृष्ठं महास्वनम्

Mahabharata

Drona Parva, Adhyaya 111, Verse 9

अवारोहद्रथात्तस्मादथ कर्णो महारथः

गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत्

Mahabharata

Drona Parva, Adhyaya 111, Verse 10

तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः

शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः

Mahabharata

Drona Parva, Adhyaya 111, Verse 11

ततो बाणसहस्राणि प्रेषयामास पाण्डवः

सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी

Mahabharata

Drona Parva, Adhyaya 111, Verse 12

तानिषूनिषुभिः कर्णो वारयित्वा महामृधे

कवचं भीमसेनस्य पातयामास सायकैः

Mahabharata

Drona Parva, Adhyaya 111, Verse 13

अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्

पश्यतां सर्वभूतानां तदद्भुतमिवाभवत्

Mahabharata

Drona Parva, Adhyaya 111, Verse 14

ततो भीमो महाराज नवभिर्नतपर्वणाम्

रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष

Mahabharata

Drona Parva, Adhyaya 111, Verse 15

ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम्

अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः

Mahabharata

Drona Parva, Adhyaya 111, Verse 16

राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम्

भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत्

त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति

Mahabharata

Drona Parva, Adhyaya 111, Verse 17

ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम्

अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान्

Mahabharata

Drona Parva, Adhyaya 111, Verse 18

चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः

चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः

Mahabharata

Drona Parva, Adhyaya 111, Verse 19

आगच्छतस्तान्सहसा भीमो राजन्महारथः

साश्वसूतध्वजान्यत्तान्पातयामास संयुगे

ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः

Mahabharata

Drona Parva, Adhyaya 111, Verse 20

दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान्

अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत

Mahabharata

Drona Parva, Adhyaya 111, Verse 21

रथमन्यं समास्थाय विधिवत्कल्पितं पुनः

अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी

Mahabharata

Drona Parva, Adhyaya 111, Verse 22

तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः

व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ

Mahabharata

Drona Parva, Adhyaya 111, Verse 23

षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः

व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः

Mahabharata

Drona Parva, Adhyaya 111, Verse 24

रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ

शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ

Mahabharata

Drona Parva, Adhyaya 111, Verse 25

तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ

विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ

Mahabharata

Drona Parva, Adhyaya 111, Verse 26

व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम्

शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ

Mahabharata

Drona Parva, Adhyaya 111, Verse 27

वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः

तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ

Mahabharata

Drona Parva, Adhyaya 111, Verse 28

प्रच्छादयन्तौ समरे शरजालैः परस्परम्

रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः

Mahabharata

Drona Parva, Adhyaya 111, Verse 29

तौ रथाभ्यां महाराज मण्डलावर्तनादिषु

व्यरोचेतां महात्मानौ वृत्रवज्रधराविव

Mahabharata

Drona Parva, Adhyaya 111, Verse 30

सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः

व्यरोचत रणे भीमः सविद्युदिव तोयदः