Drona Parva, Adhyaya 110, Verse 1
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्
यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्
यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे
न च कर्णसमं योधं लोके पश्यामि कंचन
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः
कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा
वसुषेणसहायं मां नालं देवापि संयुगे
किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः
तत्र तं निर्जितं दृष्ट्वा भुजंगमिव निर्विषम्
युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत्
अहो दुर्मुखमेवैकं युद्धानामविशारदम्
प्रावेशयद्धुतवहं पतंगमिव मोहितः
अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः
न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय
तेऽपि चास्य महाघोरं बलं नागायुतोपमम्
जानन्तो व्यवसायं च क्रूरं मारुततेजसः
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम्
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे
कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः
योऽजयत्समरे कर्णं पुरंदर इवासुरम्
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे
द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम्
भीमो धनंजयान्वेषी कस्तमर्छेज्जिजीविषुः
को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः
उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः
न भीमसेनं संप्राप्य निवर्तेत कदाचन
पतंगा इव वह्निं ते प्राविशन्नल्पचेतसः
ये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम्
शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा
तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम्
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत्
यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान्
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति संजय
दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान्
आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत्
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम्
वडवामुखमध्यस्थो मुच्येतापि हि मानवः
न भीममुखसंप्राप्तो मुच्येतेति मतिर्मम
न पाण्डवा न पाञ्चाला न च केशवसात्यकी
जानन्ति युधि संरब्धा जीवितं परिरक्षितुम्
यत्संशोचसि कौरव्य वर्तमाने जनक्षये
त्वमस्य जगतो मूलं विनाशस्य न संशयः
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम्
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम
यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम्
अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम्
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः
पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन्
ते समन्तान्महाबाहुं परिवार्य वृकोदरम्
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः