Drona Parva, Adhyaya 109, Verse 1
स तथा विरथः कर्णः पुनर्भीमेन निर्जितः
रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम्
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तथा विरथः कर्णः पुनर्भीमेन निर्जितः
रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम्
महागजाविवासाद्य विषाणाग्रैः परस्परम्
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत्
ननाद बलवन्नादं पुनर्विव्याध चोरसि
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः
पुनर्विव्याध विंशत्या शराणां नतपर्वणाम्
कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे
ध्वजमेकेन विव्याध सायकेन शितेन ह
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत
तोत्त्रैरिव महानागं कशाभिरिव वाजिनम्
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना
सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः
ततः शरं महाराज सर्वकायावदारणम्
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम्
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः
अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः
सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम्
प्राहिणोत्सूतपुत्राय षडस्रामविचारयन्
तया जघानाधिरथेः सदश्वान्साधुवाहिनः
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान्
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ
ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा
हताश्वसूतमुत्सृज्य रथं स पतितध्वजम्
विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम्
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम्
विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम्
एष दुर्मुख राधेयो भीमेन विरथीकृतः
तं रथेन नरश्रेष्ठं संपादय महारथम्
दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः
त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः
दुर्मुखं प्रेक्ष्य संग्रामे सूतपुत्रपदानुगम्
वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन्
ततः कर्णं महाराज वारयित्वा शिलीमुखैः
दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः
सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम्
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते
आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान्
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्
दीर्घमुष्णं श्वसन्वीरो न किंचित्प्रत्यपद्यत
तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश
ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः
हेमचित्रा महाराज द्योतयन्तो दिशो दश
अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः
क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन्
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुंधराम्
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः