Drona Parva, Adhyaya 107, Verse 1
यस्मिञ्जयाशा सततं पुत्राणां मम संजय
तं दृष्ट्वा विमुखं संख्ये किं नु दुर्योधनोऽब्रवीत्
कर्णो वा समरे तात किमकार्षीदतः परम्
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
यस्मिञ्जयाशा सततं पुत्राणां मम संजय
तं दृष्ट्वा विमुखं संख्ये किं नु दुर्योधनोऽब्रवीत्
कर्णो वा समरे तात किमकार्षीदतः परम्
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम्
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः
अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः
क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते
भीमसेनममन्यन्त वैवस्वतमुखे हुतम्
चापशब्दं महत्कृत्वा तलशब्दं च भैरवम्
अभ्यवर्तत राधेयो भीमसेनरथं प्रति
पुनरेव ततो राजन्महानासीत्सुदारुणः
विमर्दः सूतपुत्रस्य भीमस्य च विशां पते
संरब्धौ हि महाबाहू परस्परवधैषिणौ
अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः
क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ
युद्धेऽन्योन्यं समासाद्य ततक्षतुररिंदमौ
व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ
शरभाविव संक्रुद्धौ युयुधाते परस्परम्
ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च
विराटनगरे चैव प्राप्तं दुःखमरिंदमः
राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः
सततं च परिक्लेशान्सपुत्रेण त्वया कृतान्
दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम्
कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः
पतिमन्यं परीप्सस्व न सन्ति पतयस्तव
नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः
समक्षं तव कौरव्य यदूचुः कुरवस्तदा
दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव
यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः
परुषाण्युक्तवान्कर्णः सभायां संनिधौ तव
तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह
विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः
बाल्यात्प्रभृति चारिघ्नस्तानि दुःखानि चिन्तयन्
निरविद्यत धर्मात्मा जीवितेन वृकोदरः
ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम्
चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात्
स सायकमयैर्जालैर्भीमः कर्णरथं प्रति
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम्
ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान्
व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः
महारथो महाबाहुर्महावेगैर्महाबलः
विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः
स तोत्त्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः
अभ्यधावदसंभ्रान्तः सूतपुत्रं वृकोदरः
तमापतन्तं वेगेन रभसं पाण्डवर्षभम्
कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तमिव द्विपम्
ततः प्रध्माप्य जलजं भेरीशतनिनादितम्
अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः
तदुद्धूतं बलं दृष्ट्व रथनागाश्वपत्तिमत्
भीमः कर्णं समासाद्य छादयामास सायकैः
अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः
व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्शरैः
ऋश्यवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः
निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम्
ते हया बह्वशोभन्त मिश्रिता वातरंहसः
सितासिता महाराज यथा व्योम्नि बलाहकाः
संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ
संत्रस्ताः समकम्पन्त त्वदीयानां महारथाः
यमराष्ट्रोपमं घोरमासीदायोधनं तयोः
दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा
समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः
नालक्षयञ्जयं व्यक्तमेकैकस्य निवारणे