Drona Parva, Adhyaya 106, Verse 1
यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे
कथं भूयस्तु राधेयो भीममागान्महारथः
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे
महारथसमाख्यातं पृथिव्यां प्रवरं रथम्
भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः
नान्यतो भयमादत्त विना कर्णं धनुर्धरम्
भयान्न शेते सततं चिन्तयन्वै महारथम्
तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे
ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम्
कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति
कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन्
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम्
सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे
आशास्ते च सदा सूत पुत्रो दुर्योधनो मम
कर्णो जेष्यति संग्रामे सहितान्पाण्डवानिति
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे
स कथं भीमकर्माणं भीमसेनमयुध्यत
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः
तं सूततनयं तात कथं भीमो ह्ययोधयत्
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान्
स्मरमाणः कथं भीमो युयुधे सूतसूनुना
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान्
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत्
यो जातः कुण्डलाभ्यां च कवचेन सहैव च
तं सूतपुत्रं समरे भीमः कथमयोधयत्
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम्
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली
आजुहाव रणे यान्तं भीममाधिरथिस्तदा
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत्
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः
द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम्
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्
तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः
तस्मै प्रासृजदुग्राणि विविधानि परंतपः
अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः
सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः
स यथावन्महाराज विद्यया वै सुपूजितः
आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे
संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव
अभ्यपद्यत राधेयस्तममर्षी वृकोदरम्
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः
तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे
विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम्
सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः
कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः
विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः