Mahabharata

Drona Parva, Adhyaya 105

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 105, Verse 1

तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते

सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात्

त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन्

Mahabharata

Drona Parva, Adhyaya 105, Verse 2

स रथस्तव पुत्रस्य त्वरया परया युतः

तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान्

Mahabharata

Drona Parva, Adhyaya 105, Verse 3

उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः

अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः

Mahabharata

Drona Parva, Adhyaya 105, Verse 4

विजित्य सर्वसैन्यानि सुमहान्ति महारथाः

संप्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः

व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः

Mahabharata

Drona Parva, Adhyaya 105, Verse 5

यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः

कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद

Mahabharata

Drona Parva, Adhyaya 105, Verse 6

आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम्

निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च

Mahabharata

Drona Parva, Adhyaya 105, Verse 7

तथैव भीमसेनेन लोकः संवदते भृशम्

कथं द्रोणो जितः संख्ये धनुर्वेदस्य पारगः

Mahabharata

Drona Parva, Adhyaya 105, Verse 8

नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे

यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः

Mahabharata

Drona Parva, Adhyaya 105, Verse 9

एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम्

यद्गतं गतमेवेह शेषं चिन्तय मानद

Mahabharata

Drona Parva, Adhyaya 105, Verse 10

यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्

तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम्

Mahabharata

Drona Parva, Adhyaya 105, Verse 11

चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु

त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः

यावदेव भयं पश्चात्तावदेषां पुरःसरम्

Mahabharata

Drona Parva, Adhyaya 105, Verse 12

तद्गरीयस्तरं मन्ये यत्र कृष्णधनंजयौ

सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः

Mahabharata

Drona Parva, Adhyaya 105, Verse 13

तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्

स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनंजयात्

Mahabharata

Drona Parva, Adhyaya 105, Verse 14

गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ

संप्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम्

Mahabharata

Drona Parva, Adhyaya 105, Verse 15

न सभायां जयो वृत्तो नापि तत्र पराजयः

इह नो ग्लहमानानामद्य तात जयाजयौ

Mahabharata

Drona Parva, Adhyaya 105, Verse 16

यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि

अक्षान्संमन्यमानः स प्राक्शरास्ते दुरासदाः

Mahabharata

Drona Parva, Adhyaya 105, Verse 17

यत्र ते बहवस्तात कुरवः पर्यवस्थिताः

सेनां दुरोदरं विद्धि शरानक्षान्विशां पते

Mahabharata

Drona Parva, Adhyaya 105, Verse 18

ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः

सैन्धवे हि महाद्यूतं समासक्तं परैः सह

Mahabharata

Drona Parva, Adhyaya 105, Verse 19

अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः

सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ

तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ

Mahabharata

Drona Parva, Adhyaya 105, Verse 20

यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्

तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः

Mahabharata

Drona Parva, Adhyaya 105, Verse 21

इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्

निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः

Mahabharata

Drona Parva, Adhyaya 105, Verse 22

ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात्

उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः

Mahabharata

Drona Parva, Adhyaya 105, Verse 23

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ

बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम्

Mahabharata

Drona Parva, Adhyaya 105, Verse 24

तौ हि पूर्वं महाराज वारितौ कृतवर्मणा

प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया

Mahabharata

Drona Parva, Adhyaya 105, Verse 25

ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम्

त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली

Mahabharata

Drona Parva, Adhyaya 105, Verse 26

तावभिद्रवतामेनमुभावुद्यतकार्मुकौ

महारथसमाख्यातौ क्षत्रियप्रवरौ युधि

Mahabharata

Drona Parva, Adhyaya 105, Verse 27

युधामन्युस्तु संक्रुद्धः शरांस्त्रिंशतमायसान्

व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे

Mahabharata

Drona Parva, Adhyaya 105, Verse 28

दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः

जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी

Mahabharata

Drona Parva, Adhyaya 105, Verse 29

उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे

आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन्

Mahabharata

Drona Parva, Adhyaya 105, Verse 30

स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः

बहुभिस्ताडयामास ते हताः प्रापतन्भुवि