Drona Parva, Adhyaya 103, Verse 1
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा
दिधारयिषुराचार्यः शरवर्षैरवाकिरत्
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा
दिधारयिषुराचार्यः शरवर्षैरवाकिरत्
पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान्
सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम्
तं मृधे वेगमास्थाय परं परमधन्विनः
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन्
स तथा संवृतो भीमः प्रहसन्निव भारत
उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन्
अवासृजच्च वेगेन तेषु तान्प्रमथद्बली
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना
घोषेण महता राजन्पूरयित्वेव मेदिनीम्
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान्
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम्
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान्
तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष
प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा
स तान्विद्राव्य कौन्तेयः संख्येऽमित्रान्दुरासदः
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम्
तथा तं विप्रकुर्वाणं रथयूथपयूथपम्
भारद्वाजो महाराज भीमसेनं समभ्ययात्
द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः
अकरोत्सहसा नादं पाण्डूनां भयमादधत्
तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम्
द्रोणस्य च महाराज भीमस्य च महात्मनः
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात्
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत्
स वध्यमानः समरे रथं द्रोणस्य मारिष
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे
रथमन्यं समास्थाय व्यूहद्वारमुपाययौ
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत्
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत्
ततः स्वरथमास्थाय भीमसेनो महाबलः
अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम्
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम्
प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात्
संत्रासयन्ननीकानि तलशब्देन मारिष
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान्
भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम्
तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान्
सात्यकिं चापि संप्रेक्ष्य युध्यमानं नरर्षभम्
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा
भीमसेनो महाराज द्रष्टुकामो धनंजयम्
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः
सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम्
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी
अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान्
तं तु तस्य महानादं पार्थः शुश्राव नर्दतः
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव
वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः
पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम्
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत्
धनंजयस्य च रणे जयमाशास्तवान्विभुः