Drona Parva, Adhyaya 102, Verse 1
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः
Containing 105 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः
वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे
प्रक्षये जगतस्तीव्रे युगान्त इव भारत
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु
नापश्यच्छरणं किंचिद्धर्मराजो युधिष्ठिरः
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति
तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम्
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम्
गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम्
चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः
नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ
लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे
शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः
तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै
सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनंजयः
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम्
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम्
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि
युयुधानमनन्विष्य लोको मां गर्हयिष्यति
भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम्
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम्
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः
यथैव च मम प्रीतिरर्जुने शत्रुसूदने
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे
अतिभारे नियुक्तश्च मया शैनेयनन्दनः
स तु मित्रोपरोधेन गौरवाच्च महाबलः
प्रविष्टो भारतीं सेनां मकरः सागरं यथा
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम्
मिथः संयुध्यमानानां वृष्णिवीरेण धीमता
प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः
गमनं रोचते मह्यं यत्र यातौ महारथौ
न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन
शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः
इतो गते भीमसेने सात्वतं प्रति पाण्डवे
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ
कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ
रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ
अवश्यं तु मया कार्यमात्मनः शोकनाशनम्
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम्
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः
यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम्
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः
रथं हेमपरिष्कारं भीमान्तिकमुपानयत्
भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन्
कश्मलं प्राविशद्राजा बहु तत्र समादिशन्
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत्
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम्
नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम्
पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते
न ह्यसाध्यमकार्यं वा विद्यते मम मानद
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः