Drona Parva, Adhyaya 101, Verse 1
अपराह्णे महाराज संग्रामः समपद्यत
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः
Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.
अपराह्णे महाराज संग्रामः समपद्यत
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः
शोणाश्वं रथमास्थाय नरवीरः समाहितः
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम्
तव प्रियहिते युक्तो महेष्वासो महाबलः
चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसंभवः
वरान्वरान्हि योधानां विचिन्वन्निव भारत
अक्रीडत रणे राजन्भारद्वाजः प्रतापवान्
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः
भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम्
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान्
प्रेषयामास संक्रुद्धः सायकान्दश सप्त च
तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान्
एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत्
तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः
प्रेषयामास विशिखानष्टौ संनतपर्वणः
तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान्
अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः
बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम्
ततो द्रोणो महाराज केकयं वै विशेषयन्
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः
तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः
ब्राह्मेणैव महाबाहुराहवे समुदीरितम्
प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत्
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम्
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम
तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे
सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम्
क्रोधेन महताविष्टो व्यावृत्य नयने शुभे
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः
सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत्
द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष
असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम्
व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत
स गाढविद्धस्तेनाशु महाराज स्तनान्तरे
रथात्पुरुषशार्दूलः संभिन्नहृदयोऽपतत्
बृहत्क्षत्रे हते राजन्केकयानां महारथे
शैशुपालिः सुसंक्रुद्धो यन्तारमिदमब्रवीत्
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः
विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम्
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम्
द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः
सहसा प्रापतद्द्रोणं पतंग इव पावकम्
सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम्
पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह
चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे
अथान्यद्धनुरादाय शैशुपालिर्महारथः
विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः
तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः
अथैनं पञ्चविंशत्या सायकानां समार्पयत्
विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे
गदां चिक्षेप संक्रुद्धो भारद्वाजरथं प्रति