Drona Parva, Adhyaya 100, Verse 1
किं तस्यां मम सेनायां नासन्केचिन्महारथाः
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन्
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
किं तस्यां मम सेनायां नासन्केचिन्महारथाः
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन्
एको हि समरे कर्म कृतवान्सत्यविक्रमः
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव
अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः
एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः
कथं च युध्यमानानामपक्रान्तो महात्मनाम्
एको बहूनां शैनेयस्तन्ममाचक्ष्व संजय
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान्
तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत्
आह्णिकेषु समूहेषु तव सैन्यस्य मानद
नास्ति लोके समः कश्चित्समूह इति मे मतिः
तत्र देवाः स्म भाषन्ते चारणाश्च समागताः
एतदन्ताः समूहा वै भविष्यन्ति महीतले
न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत्
चण्डवाताभिपन्नानां समुद्राणामिव स्वनः
रणेऽभवद्बलौघानामन्योन्यमभिधावताम्
पार्थिवानां समेतानां बहून्यासन्नरोत्तम
त्वद्बले पाण्डवानां च सहस्राणि शतानि च
संरब्धानां प्रवीराणां समरे दृढकर्मणाम्
तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः
अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः
आगच्छत प्रहरत बलवत्परिधावत
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ
यथा सुखेन गच्छेतां जयद्रथवधं प्रति
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत्
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम्
क्षोभयध्वं महावेगाः पवनाः सागरं यथा
भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः
आजघ्नुः कौरवान्संख्ये त्यक्त्वासूनात्मनः प्रियान्
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः
स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम्
तथैव तावका राजन्प्रार्थयन्तो महद्यशः
आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये
हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम्
कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः
दृष्टीः संख्ये सैनिकानां प्रतिजघ्नुः समन्ततः
तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः
दुर्योधनो महाराज व्यगाहत महद्बलम्
स संनिपातस्तुमुलस्तेषां तस्य च भारत
अभवत्सर्वसैन्यानामभावकरणो महान्
तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम्
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम्
एकस्य च बहूनां च संनिपातो महाहवे
विशेषतो नृपतिना विषमः प्रतिभाति मे
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः
राजन्संग्राममाश्चर्यं तव पुत्रस्य भारत
एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम्
दुर्योधनेन सहसा पाण्डवी पृतना रणे
नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता
तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव
भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन्
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्
धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः
केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः