Drona Parva, Adhyaya 99, Verse 1
ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत्
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान्
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत्
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान्
स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम्
स तु दुःशासनं वीरः सायकैरावृणोद्भृशम्
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम्
त्रिगर्तांश्चोदयामास युयुधानरथं प्रति
तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः
ते तु तं रथवंशेन महता पर्यवारयन्
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः
तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम्
योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत्
तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः
महामारुतवेगेन रुग्णा इव महाद्रुमाः
रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी
शैनेयशरसंकृत्तैः शोणितौघपरिप्लुतैः
अशोभत महाराज किंशुकैरिव पुष्पितैः
ते वध्यमानाः समरे युयुधानेन तावकाः
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति
भयात्पतगराजस्य गर्तानीव महोरगाः
हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः
प्रायात्स शनकैर्वीरो धनंजयरथं प्रति
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव
विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः
सात्यकिं तु महाराज प्रहसन्निव भारत
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते
सर्वपारशवीं शक्तिं विससर्ज जिघांसया
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर
सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव
शरैरग्निशिखाकारैराजघान स्तनान्तरे
सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे
त्रिभिरेव महावेगैः शरैः संनतपर्वभिः
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः
सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः
ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित्
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी
स छिन्नधन्वा विरथो हताश्वो हतसारथिः
त्रिगर्तसेनापतिना स्वरथेनापवाहितः
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत
न जघान महाबाहुर्भीमसेनवचः स्मरन्
भीमसेनेन हि वधः सुतानां तव भारत
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे
तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो
जगाम त्वरितो राजन्येन यातो धनंजयः