Drona Parva, Adhyaya 98, Verse 1
दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम्
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत्
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम्
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत्
दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः
कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः
राजपुत्रो भवानत्र राजभ्राता महारथः
किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि
स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे
न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः
अप्रियाणां च वचनं पाण्डवेषु विशेषतः
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा
क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम्
आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि
शोच्येयं भारती सेना राजा चैव सुयोधनः
यस्य त्वं कर्कशो भ्राता पलायनपरायणः
ननु नाम त्वया वीर दीर्यमाणा भयार्दिता
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी
स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान्
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन
कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये
एकेन सात्वतेनाद्य युध्यमानस्य चानघ
पलायने तव मतिः संग्रामाद्धि प्रवर्तते
यदा गाण्डीवधन्वानं भीमसेनं च कौरव
यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि
युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम्
न तुल्याः सात्यकिशरा येषां भीतः पलायसे
यदि तावत्कृता बुद्धिः पलायनपरायणा
पृथिवी धर्मराजस्य शमेनैव प्रदीयताम्
यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः
यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम्
सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः
पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः
अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः
न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः
गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम्
एवमुक्तस्तव सुतो नाब्रवीत्किंचिदप्यसौ
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः
सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम्
आसाद्य च रणे यत्तो युयुधानमयोधयत्
द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा
अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम्
प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम्
द्रावयामास योधान्वै शतशोऽथ सहस्रशः
ततो द्रोणो महाराज नाम विश्राव्य संयुगे
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत्
तं जयन्तमनीकानि भारद्वाजं ततस्ततः
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात्
स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः
तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत
संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष
आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः