Drona Parva, Adhyaya 97, Verse 1
संप्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम्
निर्ह्रीका मम ते पुत्राः किमकुर्वत संजय
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
संप्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम्
निर्ह्रीका मम ते पुत्राः किमकुर्वत संजय
कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम्
शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः
कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः
कथं च मम पुत्राणां जीवतां तत्र संजय
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम्
एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः
विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति
यत्रावध्यन्त समरे सात्वतेन महात्मना
एकस्य हि न पर्याप्तं मत्सैन्यं तस्य संजय
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः
निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम्
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे
युयुधानो न शकितो हन्तुं यः पुरुषर्षभः
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः
यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत
ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः
परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात्
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः
शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा
कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम्
शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन्
ततो रथसहस्रेण महारथशतेन च
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः
अभ्यद्रवन्त शैनेयमसंख्येयाश्च पत्तयः
तांश्च संचोदयन्सर्वान्घ्नतैनमिति भारत
दुःशासनो महाराज सात्यकिं पर्यवारयत्
तत्राद्भुतमपश्याम शैनेयचरितं महत्
यदेको बहुभिः सार्धमसंभ्रान्तमयुध्यत
अवधीच्च रथानीकं द्विरदानां च तद्बलम्
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः
अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः
कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः
वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुंधरा
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष
संछन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत
गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः
अञ्जनस्य कुले जाता वामनस्य च भारत
सुप्रतीककुले जाता महापद्मकुले तथा
ऐरावणकुले चैव तथान्येषु कुलेषु च
जाता दन्तिवरा राजञ्शेरते बहवो हताः
वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान्
तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः
नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत्
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः
तांश्चापि सर्वान्संप्रेक्ष्य पुत्रो दुःशासनस्तव
पाषाणयोधिनः शूरान्पार्वतीयानचोदयत्
अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः
अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम्