Mahabharata

Drona Parva, Adhyaya 96

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 96, Verse 1

जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम्

जगाम तव सैन्यस्य मध्येन रथिनां वरः

Mahabharata

Drona Parva, Adhyaya 96, Verse 2

शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः

मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत्

Mahabharata

Drona Parva, Adhyaya 96, Verse 3

स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम्

रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम्

Mahabharata

Drona Parva, Adhyaya 96, Verse 4

रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः

रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ

Mahabharata

Drona Parva, Adhyaya 96, Verse 5

सधनुर्मण्डलः संख्ये तेजोभास्वररश्मिवान्

शरदीवोदितः सूर्यो नृसूर्यो विरराज ह

Mahabharata

Drona Parva, Adhyaya 96, Verse 6

वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः

तावकानां बभौ मध्ये गवां मध्ये यथा वृषः

Mahabharata

Drona Parva, Adhyaya 96, Verse 7

मत्तद्विरदसंकाशं मत्तद्विरदगामिनम्

प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम्

व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे

Mahabharata

Drona Parva, Adhyaya 96, Verse 8

द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम्

जलसंधार्णवं तीर्त्वा काम्बोजानां च वाहिनीम्

Mahabharata

Drona Parva, Adhyaya 96, Verse 9

हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम्

परिवव्रुः सुसंक्रुद्धास्त्वदीयाः सात्यकिं रथाः

Mahabharata

Drona Parva, Adhyaya 96, Verse 10

दुर्योधनश्चित्रसेनो दुःशासनविविंशती

शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः

Mahabharata

Drona Parva, Adhyaya 96, Verse 11

अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः

पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः

Mahabharata

Drona Parva, Adhyaya 96, Verse 12

अथ शब्दो महानासीत्तव सैन्यस्य मारिष

मारुतोद्धूतवेगस्य सागरस्येव पर्वणि

Mahabharata

Drona Parva, Adhyaya 96, Verse 13

तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुंगवः

शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव

Mahabharata

Drona Parva, Adhyaya 96, Verse 14

इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम्

मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत्

Mahabharata

Drona Parva, Adhyaya 96, Verse 15

नादयन्वै दिशः सर्वा रथघोषेण सारथे

पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि

Mahabharata

Drona Parva, Adhyaya 96, Verse 16

एतद्बलार्णवं तात वारयिष्ये महारणे

पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम्

Mahabharata

Drona Parva, Adhyaya 96, Verse 17

पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे

एष सैन्यानि शत्रूणां विधमामि शितैः शरैः

Mahabharata

Drona Parva, Adhyaya 96, Verse 18

निहतानाहवे पश्य पदात्यश्वरथद्विपान्

मच्छरैरग्निसंकाशैर्विदेहासून्सहस्रशः

Mahabharata

Drona Parva, Adhyaya 96, Verse 19

इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः

समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः

जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः

Mahabharata

Drona Parva, Adhyaya 96, Verse 20

तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः

जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान्

Mahabharata

Drona Parva, Adhyaya 96, Verse 21

स संप्रहारस्तुमुलस्तस्य तेषां च धन्विनाम्

देवासुररणप्रख्यः प्रावर्तत जनक्षयः

Mahabharata

Drona Parva, Adhyaya 96, Verse 22

मेघजालनिभं सैन्यं तव पुत्रस्य मारिष

प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः

Mahabharata

Drona Parva, Adhyaya 96, Verse 23

प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान्

असंभ्रमं महाराज तावकानवधीद्बहून्

Mahabharata

Drona Parva, Adhyaya 96, Verse 24

आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम्

न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो

Mahabharata

Drona Parva, Adhyaya 96, Verse 25

रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः

शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः

Mahabharata

Drona Parva, Adhyaya 96, Verse 26

संभ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः

तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः

बभ्राम तत्र तत्रैव गावः शीतार्दिता इव

Mahabharata

Drona Parva, Adhyaya 96, Verse 27

पदातिनं रथं नागं सादिनं तुरगं तथा

अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः

Mahabharata

Drona Parva, Adhyaya 96, Verse 28

न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः

यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप

अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ

Mahabharata

Drona Parva, Adhyaya 96, Verse 29

ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः

विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान्

Mahabharata

Drona Parva, Adhyaya 96, Verse 30

सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः

दुःशासनः षोडशभिर्विव्याध शिनिपुंगवम्