Mahabharata

Drona Parva, Adhyaya 94

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 94, Verse 1

द्रोणं स जित्वा पुरुषप्रवीर;स्तथैव हार्दिक्यमुखांस्त्वदीयान्

प्रहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुंगवाग्र्य

Mahabharata

Drona Parva, Adhyaya 94, Verse 2

निमित्तमात्रं वयमत्र सूत; दग्धारयः केशवफल्गुनाभ्याम्

हतान्निहन्मेह नरर्षभेण; वयं सुरेशात्मसमुद्भवेन

Mahabharata

Drona Parva, Adhyaya 94, Verse 3

तमेवमुक्त्वा शिनिपुंगवस्तदा; महामृधे सोऽग्र्यधनुर्धरोऽरिहा

किरन्समन्तात्सहसा शरान्बली; समापतच्छ्येन इवामिषं यथा

Mahabharata

Drona Parva, Adhyaya 94, Verse 4

तं यान्तमश्वैः शशिशङ्खवर्णै;र्विगाह्य सैन्यं पुरुषप्रवीरम्

नाशक्नुवन्वारयितुं समन्ता;दादित्यरश्मिप्रतिमं नराग्र्यम्

Mahabharata

Drona Parva, Adhyaya 94, Verse 5

असह्यविक्रान्तमदीनसत्त्वं; सर्वे गणा भारत दुर्विषह्यम्

सहस्रनेत्रप्रतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये

Mahabharata

Drona Parva, Adhyaya 94, Verse 6

अमर्षपूर्णस्त्वतिचित्रयोधी; शरासनी काञ्चनवर्मधारी

सुदर्शनः सात्यकिमापतन्तं; न्यवारयद्राजवरः प्रसह्य

Mahabharata

Drona Parva, Adhyaya 94, Verse 7

तयोरभूद्भरत संप्रहारः; सुदारुणस्तं समभिप्रशंसन्

योधास्त्वदीयाश्च हि सोमकाश्च; वृत्रेन्द्रयोर्युद्धमिवामरौघाः

Mahabharata

Drona Parva, Adhyaya 94, Verse 8

शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य;त्सुदर्शनः सात्वतमुख्यमाजौ

अनागतानेव तु तान्पृषत्कां;श्चिच्छेद बाणैः शिनिपुंगवोऽपि

Mahabharata

Drona Parva, Adhyaya 94, Verse 9

तथैव शक्रप्रतिमोऽपि सात्यकिः; सुदर्शने यान्क्षिपति स्म सायकान्

द्विधा त्रिधा तानकरोत्सुदर्शनः; शरोत्तमैः स्यन्दनवर्यमास्थितः

Mahabharata

Drona Parva, Adhyaya 94, Verse 10

संप्रेक्ष्य बाणान्निहतांस्तदानीं; सुदर्शनः सात्यकिबाणवेगैः

क्रोधाद्दिधक्षन्निव तिग्मतेजाः; शरानमुञ्चत्तपनीयचित्रान्

Mahabharata

Drona Parva, Adhyaya 94, Verse 11

पुनः स बाणैस्त्रिभिरग्निकल्पै;राकर्णपूर्णैर्निशितैः सुपुङ्खैः

विव्याध देहावरणं विभिद्य; ते सात्यकेराविविशुः शरीरम्

Mahabharata

Drona Parva, Adhyaya 94, Verse 12

तथैव तस्यावनिपालपुत्रः; संधाय बाणैरपरैर्ज्वलद्भिः

आजघ्निवांस्तान्रजतप्रकाशां;श्चतुर्भिरश्वांश्चतुरः प्रसह्य

Mahabharata

Drona Parva, Adhyaya 94, Verse 13

तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेरिन्द्रसमानवीर्यः

सुदर्शनस्येषुगणैः सुतीक्ष्णै;र्हयान्निहत्याशु ननाद नादम्

Mahabharata

Drona Parva, Adhyaya 94, Verse 14

अथास्य सूतस्य शिरो निकृत्य; भल्लेन वज्राशनिसंनिभेन

सुदर्शनस्यापि शिनिप्रवीरः; क्षुरेण चिच्छेद शिरः प्रसह्य

Mahabharata

Drona Parva, Adhyaya 94, Verse 15

सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात्

यथा पुरा वज्रधरः प्रसह्य; बलस्य संख्येऽतिबलस्य राजन्

Mahabharata

Drona Parva, Adhyaya 94, Verse 16

निहत्य तं पार्थिवपुत्रपौत्रं; रणे यदूनामृषभस्तरस्वी

मुदा समेतः परया महात्मा; रराज राजन्सुरराजकल्पः

Mahabharata

Drona Parva, Adhyaya 94, Verse 17

ततो ययावर्जुनमेव येन; निवार्य सैन्यं तव मार्गणौघैः

सदश्वयुक्तेन रथेन निर्या;ल्लोकान्विसिस्मापयिषुर्नृवीरः

Mahabharata

Drona Parva, Adhyaya 94, Verse 18

तत्तस्य विस्मापयनीयमग्र्य;मपूजयन्योधवराः समेताः

यद्वर्तमानानिषुगोचरेऽरी;न्ददाह बाणैर्हुतभुग्यथैव