Mahabharata

Drona Parva, Adhyaya 93

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 93, Verse 1

काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः

भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत्

Mahabharata

Drona Parva, Adhyaya 93, Verse 2

स संप्रहारस्तुमुलो द्रोणसात्वतयोरभूत्

पश्यतां सर्वसैन्यानां बलिवासवयोरिव

Mahabharata

Drona Parva, Adhyaya 93, Verse 3

ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः

त्रिभिराशीविषाकारैर्ललाटे समविध्यत

Mahabharata

Drona Parva, Adhyaya 93, Verse 4

तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः

व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः

Mahabharata

Drona Parva, Adhyaya 93, Verse 5

ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान्

भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे

Mahabharata

Drona Parva, Adhyaya 93, Verse 6

तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान्

द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित्

Mahabharata

Drona Parva, Adhyaya 93, Verse 7

तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते

प्रहस्य सहसाविध्यद्विंशत्या शिनिपुंगवम्

Mahabharata

Drona Parva, Adhyaya 93, Verse 8

पुनः पञ्चाशतेषूणां शतेन च समार्पयत्

लघुतां युयुधानस्य लाघवेन विशेषयन्

Mahabharata

Drona Parva, Adhyaya 93, Verse 9

समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः

तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः

Mahabharata

Drona Parva, Adhyaya 93, Verse 10

तथैव युयुधानेन सृष्टाः शतसहस्रशः

अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः

Mahabharata

Drona Parva, Adhyaya 93, Verse 11

लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष

विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ

Mahabharata

Drona Parva, Adhyaya 93, Verse 12

सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः

आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः

सारथिं च शतेनैव भारद्वाजस्य पश्यतः

Mahabharata

Drona Parva, Adhyaya 93, Verse 13

लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः

सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः

ध्वजमेकेन विव्याध माधवस्य रथे स्थितम्

Mahabharata

Drona Parva, Adhyaya 93, Verse 14

अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा

धनुश्चिच्छेद समरे माधवस्य महात्मनः

Mahabharata

Drona Parva, Adhyaya 93, Verse 15

सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः

गदां जग्राह महतीं भारद्वाजाय चाक्षिपत्

Mahabharata

Drona Parva, Adhyaya 93, Verse 16

तामापतन्तीं सहसा पट्टबद्धामयस्मयीम्

न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः

Mahabharata

Drona Parva, Adhyaya 93, Verse 17

अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः

विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः

Mahabharata

Drona Parva, Adhyaya 93, Verse 18

स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत

तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः

Mahabharata

Drona Parva, Adhyaya 93, Verse 19

ततः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम्

तरसा प्रेषयामास माधवस्य रथं प्रति

Mahabharata

Drona Parva, Adhyaya 93, Verse 20

अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा

भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना

Mahabharata

Drona Parva, Adhyaya 93, Verse 21

ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा

दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ

Mahabharata

Drona Parva, Adhyaya 93, Verse 22

द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः

अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम्

Mahabharata

Drona Parva, Adhyaya 93, Verse 23

मुमोह सारथिस्तस्य रथशक्त्या समाहतः

स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत

Mahabharata

Drona Parva, Adhyaya 93, Verse 24

चकार सात्यकी राजंस्तत्र कर्मातिमानुषम्

अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम्

Mahabharata

Drona Parva, Adhyaya 93, Verse 25

ततः शरशतेनैव युयुधानो महारथः

अविध्यद्ब्राह्मणं संख्ये हृष्टरूपो विशां पते

Mahabharata

Drona Parva, Adhyaya 93, Verse 26

तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे

Mahabharata

Drona Parva, Adhyaya 93, Verse 27

निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम्

सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति

Mahabharata

Drona Parva, Adhyaya 93, Verse 28

ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि

अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः

Mahabharata

Drona Parva, Adhyaya 93, Verse 29

स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः

चकार राजतो राजन्भ्राजमान इवांशुमान्

Mahabharata

Drona Parva, Adhyaya 93, Verse 30

अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत

इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः