Mahabharata

Drona Parva, Adhyaya 92

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 92, Verse 1

ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः

त्वरमाणा महाराज युयुधानमयोधयन्

Mahabharata

Drona Parva, Adhyaya 92, Verse 2

तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः

दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः

Mahabharata

Drona Parva, Adhyaya 92, Verse 3

विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः

विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा

Mahabharata

Drona Parva, Adhyaya 92, Verse 4

दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः

चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष

Mahabharata

Drona Parva, Adhyaya 92, Verse 5

दुर्योधनश्च महता शरवर्षेण माधवम्

अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः

Mahabharata

Drona Parva, Adhyaya 92, Verse 6

सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः

तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः

Mahabharata

Drona Parva, Adhyaya 92, Verse 7

भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा

विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः

Mahabharata

Drona Parva, Adhyaya 92, Verse 8

दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम्

सत्यव्रतं च नवभिर्विजयं दशभिः शरैः

Mahabharata

Drona Parva, Adhyaya 92, Verse 9

ततो रुक्माङ्गदं चापं विधुन्वानो महारथः

अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम्

Mahabharata

Drona Parva, Adhyaya 92, Verse 10

राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम्

शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः

Mahabharata

Drona Parva, Adhyaya 92, Verse 11

विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान्

अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ

Mahabharata

Drona Parva, Adhyaya 92, Verse 12

सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत

अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा

Mahabharata

Drona Parva, Adhyaya 92, Verse 13

सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव

शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः

Mahabharata

Drona Parva, Adhyaya 92, Verse 14

माधवस्तु रणे राजन्कुरुराजस्य धन्विनः

धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव

अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत्

Mahabharata

Drona Parva, Adhyaya 92, Verse 15

निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा

नामृष्यत रणे राजा शत्रोर्विजयलक्षणम्

Mahabharata

Drona Parva, Adhyaya 92, Verse 16

अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम्

विव्याध सात्यकिं तूर्णं सायकानां शतेन ह

Mahabharata

Drona Parva, Adhyaya 92, Verse 17

सोऽतिविद्धो बलवता पुत्रेण तव धन्विना

अमर्षवशमापन्नस्तव पुत्रमपीडयत्

Mahabharata

Drona Parva, Adhyaya 92, Verse 18

पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः

सात्वतं शरवर्षेण छादयामासुरञ्जसा

Mahabharata

Drona Parva, Adhyaya 92, Verse 19

स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः

एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः

Mahabharata

Drona Parva, Adhyaya 92, Verse 20

दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः

प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम्

Mahabharata

Drona Parva, Adhyaya 92, Verse 21

नागं मणिमयं चैव शरैर्ध्वजमपातयत्

हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः

सारथिं पातयामास क्षुरप्रेण महायशाः

Mahabharata

Drona Parva, Adhyaya 92, Verse 22

एतस्मिन्नन्तरे चैव कुरुराजं महारथम्

अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः

Mahabharata

Drona Parva, Adhyaya 92, Verse 23

स वध्यमानः समरे शैनेयस्य शरोत्तमैः

प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव

आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः

Mahabharata

Drona Parva, Adhyaya 92, Verse 24

हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे

ग्रस्यमानं सात्यकिना खे सोममिव राहुणा

Mahabharata

Drona Parva, Adhyaya 92, Verse 25

तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः

अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः

Mahabharata

Drona Parva, Adhyaya 92, Verse 26

विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः

भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः

Mahabharata

Drona Parva, Adhyaya 92, Verse 27

तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम्

युयुधानो महाराज यन्तारमिदमब्रवीत्

Mahabharata

Drona Parva, Adhyaya 92, Verse 28

कृतवर्मा रथेनैष द्रुतमापतते शरी

प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम्

Mahabharata

Drona Parva, Adhyaya 92, Verse 29

ततः प्रजविताश्वेन विधिवत्कल्पितेन च

आससाद रणे भोजं प्रतिमानं धनुष्मताम्

Mahabharata

Drona Parva, Adhyaya 92, Verse 30

ततः परमसंक्रुद्धौ ज्वलन्ताविव पावकौ

समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ