Mahabharata

Drona Parva, Adhyaya 91

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 91, Verse 1

शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि

द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना

Mahabharata

Drona Parva, Adhyaya 91, Verse 2

लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः

द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम्

Mahabharata

Drona Parva, Adhyaya 91, Verse 3

श्रुत्वा तु निनदं भीमं तावकानां महाहवे

शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात्

Mahabharata

Drona Parva, Adhyaya 91, Verse 4

कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः

अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुध्यत सात्यकिः

Mahabharata

Drona Parva, Adhyaya 91, Verse 5

ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे

प्रेषयामास समरे शरांश्च चतुरोऽपरान्

Mahabharata

Drona Parva, Adhyaya 91, Verse 6

ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः

पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः

Mahabharata

Drona Parva, Adhyaya 91, Verse 7

ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः

सेनामस्यार्दयामास शरैः संनतपर्वभिः

Mahabharata

Drona Parva, Adhyaya 91, Verse 8

साभज्यताथ पृतना शैनेयशरपीडिता

ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः

Mahabharata

Drona Parva, Adhyaya 91, Verse 9

शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान्

अतीत्य स महाराज द्रोणानीकमहार्णवम्

Mahabharata

Drona Parva, Adhyaya 91, Verse 10

पराजित्य च संहृष्टः कृतवर्माणमाहवे

यन्तारमब्रवीच्छूरः शनैर्याहीत्यसंभ्रमम्

Mahabharata

Drona Parva, Adhyaya 91, Verse 11

दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसंकुलम्

पदातिजनसंपूर्णमब्रवीत्सारथिं पुनः

Mahabharata

Drona Parva, Adhyaya 91, Verse 12

यदेतन्मेघसंकाशं द्रोणानीकस्य सव्यतः

सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम्

Mahabharata

Drona Parva, Adhyaya 91, Verse 13

एते हि बहवः सूत दुर्निवार्याश्च संयुगे

दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः

राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः

Mahabharata

Drona Parva, Adhyaya 91, Verse 14

त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः

मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः

Mahabharata

Drona Parva, Adhyaya 91, Verse 15

अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे

त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः

Mahabharata

Drona Parva, Adhyaya 91, Verse 16

ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः

रथेनादित्यवर्णेन भास्वरेण पताकिना

Mahabharata

Drona Parva, Adhyaya 91, Verse 17

तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः

वायुवेगसमाः संख्ये कुन्देन्दुरजतप्रभाः

Mahabharata

Drona Parva, Adhyaya 91, Verse 18

आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः

परिवव्रुस्ततः शूरा गजानीकेन सर्वतः

किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः

Mahabharata

Drona Parva, Adhyaya 91, Verse 19

सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत्

पर्वतानिव वर्षेण तपान्ते जलदो महान्

Mahabharata

Drona Parva, Adhyaya 91, Verse 20

वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः

प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः

Mahabharata

Drona Parva, Adhyaya 91, Verse 21

शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः

विशीर्णकर्णास्यकरा विनियन्तृपताकिनः

Mahabharata

Drona Parva, Adhyaya 91, Verse 22

संभिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः

हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः

Mahabharata

Drona Parva, Adhyaya 91, Verse 23

रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः

नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः

Mahabharata

Drona Parva, Adhyaya 91, Verse 24

तस्मिन्द्रुते गजानीके जलसंधो महारथः

यत्तः संप्रापयन्नागं रजताश्वरथं प्रति

Mahabharata

Drona Parva, Adhyaya 91, Verse 25

रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः

कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः

Mahabharata

Drona Parva, Adhyaya 91, Verse 26

शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम्

उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम्

Mahabharata

Drona Parva, Adhyaya 91, Verse 27

चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि

अशोभत महाराज सविद्युदिव तोयदः

Mahabharata

Drona Parva, Adhyaya 91, Verse 28

तमापतन्तं सहसा मागधस्य गजोत्तमम्

सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम्

Mahabharata

Drona Parva, Adhyaya 91, Verse 29

नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः

अक्रुध्यत रणे राजञ्जलसंधो महाबलः

Mahabharata

Drona Parva, Adhyaya 91, Verse 30

ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः

अविध्यत शिनेः पौत्रं जलसंधो महोरसि