Drona Parva, Adhyaya 90, Verse 1
आत्मापराधात्संभूतं व्यसनं भरतर्षभ
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
आत्मापराधात्संभूतं व्यसनं भरतर्षभ
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम्
आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम
सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत्
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः
न हि ते सुकृतं किंचिदादौ मध्ये च भारत
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम्
शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम्
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान्
दधारैको रणे पाण्डून्कृतवर्मा महारथः
यथोद्वृत्तं धारयते वेला वै सलिलार्णवम्
पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत्
तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम्
यदेनं सहिताः पार्था नातिचक्रमुराहवे
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः
शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान्
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः
शतेन नकुलश्चापि हार्दिक्यं समविध्यत
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत्
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः
शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः
पुनर्विव्याध विंशत्या सायकानां हसन्निव
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान्
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः
धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत्
अथैनं छिन्नधन्वानं त्वरमाणो महारथः
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः
स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः
चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः
विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन्
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे
प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम्
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा
कृतवर्माणमभितः प्रजज्वाल सुदारुणा
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम्
द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा
द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम्
ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम्
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत्
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान्
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः
धनुश्चिच्छेद समरे प्रहसन्निव भारत
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम्
असिं जग्राह समरे शतचन्द्रं च भास्वरम्
भ्रामयित्वा महाचर्म चामीकरविभूषितम्
तमसिं प्रेषयामास कृतवर्मरथं प्रति