Mahabharata

Drona Parva, Adhyaya 89

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 89, Verse 1

एवं बहुविधं सैन्यमेवं प्रविचितं वरम्

व्यूढमेवं यथान्यायमेवं बहु च संजय

Mahabharata

Drona Parva, Adhyaya 89, Verse 2

नित्यं पूजितमस्माभिरभिकामं च नः सदा

प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 3

नातिवृद्धमबालं च न कृशं नातिपीवरम्

लघुवृत्तायतप्राणं सारगात्रमनामयम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 4

आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम्

शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 5

आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते

सम्यक्प्रहरणे याने व्यपयाने च कोविदम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 6

नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम्

परीक्ष्य च यथान्यायं वेतनेनोपपादितम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 7

न गोष्ठ्या नोपचारेण न संबन्धनिमित्ततः

नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह

Mahabharata

Drona Parva, Adhyaya 89, Verse 8

कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम्

कृतमानोपकारं च यशस्वि च मनस्वि च

Mahabharata

Drona Parva, Adhyaya 89, Verse 9

सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः

लोकपालोपमैस्तात पालितं नरसत्तमैः

Mahabharata

Drona Parva, Adhyaya 89, Verse 10

बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः

अस्मानभिसृतैः कामात्सबलैः सपदानुगैः

Mahabharata

Drona Parva, Adhyaya 89, Verse 11

महोदधिमिवापूर्णमापगाभिः समन्ततः

अपक्षैः पक्षिसंकाशै रथैरश्वैश्च संवृतम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 12

योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम्

क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 13

ध्वजभूषणसंबाधं रत्नपट्टेन संचितम्

वाहनैरपि धावद्भिर्वायुवेगविकम्पितम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 14

द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम्

जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 15

गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे

संजयैकरथेनैव युयुधाने च मामकम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 16

तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि

सात्वते च रथोदारे मम सैन्यस्य संजय

Mahabharata

Drona Parva, Adhyaya 89, Verse 17

तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ

सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे

Mahabharata

Drona Parva, Adhyaya 89, Verse 18

किं तदा कुरवः कृत्यं विदधुः कालचोदिताः

दारुणैकायने काले कथं वा प्रतिपेदिरे

Mahabharata

Drona Parva, Adhyaya 89, Verse 19

ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात संगतान्

विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै

Mahabharata

Drona Parva, Adhyaya 89, Verse 20

अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ

न च वारयिता कश्चित्तयोरस्तीह संजय

Mahabharata

Drona Parva, Adhyaya 89, Verse 21

भृताश्च बहवो योधाः परीक्ष्यैव महारथाः

वेतनेन यथायोग्यं प्रियवादेन चापरे

Mahabharata

Drona Parva, Adhyaya 89, Verse 22

अकारणभृतस्तात मम सैन्ये न विद्यते

कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम्

Mahabharata

Drona Parva, Adhyaya 89, Verse 23

न च योधोऽभवत्कश्चिन्मम सैन्ये तु संजय

अल्पदानभृतस्तात न कुप्यभृतको नरः

Mahabharata

Drona Parva, Adhyaya 89, Verse 24

पूजिता हि यथाशक्त्या दानमानासनैर्मया

तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः

Mahabharata

Drona Parva, Adhyaya 89, Verse 25

ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना

शैनेयेन परामृष्टाः किमन्यद्भागधेयतः

Mahabharata

Drona Parva, Adhyaya 89, Verse 26

रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः

एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः

Mahabharata

Drona Parva, Adhyaya 89, Verse 27

अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम्

पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत

Mahabharata

Drona Parva, Adhyaya 89, Verse 28

सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत्

किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत

Mahabharata

Drona Parva, Adhyaya 89, Verse 29

सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ

दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः

Mahabharata

Drona Parva, Adhyaya 89, Verse 30

दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम्

शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः