Mahabharata

Drona Parva, Adhyaya 88

Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 88, Verse 1

प्रयाते तव सैन्यं तु युयुधाने युयुत्सया

धर्मराजो महाराज स्वेनानीकेन संवृतः

प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः

Mahabharata

Drona Parva, Adhyaya 88, Verse 2

ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः

प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः

Mahabharata

Drona Parva, Adhyaya 88, Verse 3

आगच्छत प्रहरत द्रुतं विपरिधावत

यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः

Mahabharata

Drona Parva, Adhyaya 88, Verse 4

महारथा हि बहवो यतिष्यन्त्यस्य निर्जये

इति ब्रुवन्तो वेगेन समापेतुर्बलं तव

Mahabharata

Drona Parva, Adhyaya 88, Verse 5

वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः

ततः शब्दो महानासीद्युयुधानरथं प्रति

Mahabharata

Drona Parva, Adhyaya 88, Verse 6

प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी

सात्वतेन महाराज शतधाभिव्यदीर्यत

Mahabharata

Drona Parva, Adhyaya 88, Verse 7

तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः

सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत्

Mahabharata

Drona Parva, Adhyaya 88, Verse 8

ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना

आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम्

Mahabharata

Drona Parva, Adhyaya 88, Verse 9

रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष

चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः

Mahabharata

Drona Parva, Adhyaya 88, Verse 10

अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः

बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते

Mahabharata

Drona Parva, Adhyaya 88, Verse 11

हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः

ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम

Mahabharata

Drona Parva, Adhyaya 88, Verse 12

शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः

पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी

Mahabharata

Drona Parva, Adhyaya 88, Verse 13

गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः

रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः

Mahabharata

Drona Parva, Adhyaya 88, Verse 14

तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः

उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः

गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना

Mahabharata

Drona Parva, Adhyaya 88, Verse 15

नानाविधानि सैन्यानि तव हत्वा तु सात्वतः

प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्

Mahabharata

Drona Parva, Adhyaya 88, Verse 16

ततस्तेनैव मार्गेण येन यातो धनंजयः

इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः

Mahabharata

Drona Parva, Adhyaya 88, Verse 17

भरद्वाजं समासाद्य युयुधानस्तु मारिष

नाभ्यवर्तत संक्रुद्धो वेलामिव जलाशयः

Mahabharata

Drona Parva, Adhyaya 88, Verse 18

निवार्य तु रणे द्रोणो युयुधानं महारथम्

विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः

Mahabharata

Drona Parva, Adhyaya 88, Verse 19

सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः

हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः

Mahabharata

Drona Parva, Adhyaya 88, Verse 20

तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत्

स तं न ममृषे द्रोणं युयुधानो महारथः

Mahabharata

Drona Parva, Adhyaya 88, Verse 21

सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः

दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च

Mahabharata

Drona Parva, Adhyaya 88, Verse 22

युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः

एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्

ध्वजमेकेन बाणेन विव्याध युधि मारिष

Mahabharata

Drona Parva, Adhyaya 88, Verse 23

तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः

त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः

Mahabharata

Drona Parva, Adhyaya 88, Verse 24

तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः

प्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह

Mahabharata

Drona Parva, Adhyaya 88, Verse 25

तवाचार्यो रणं हित्वा गतः कापुरुषो यथा

युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत

Mahabharata

Drona Parva, Adhyaya 88, Verse 26

त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव

यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम्

Mahabharata

Drona Parva, Adhyaya 88, Verse 27

धनंजयस्य पदवीं धर्मराजस्य शासनात्

गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत्

Mahabharata

Drona Parva, Adhyaya 88, Verse 28

एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन्

प्रयातः सहसा राजन्सारथिं चेदमब्रवीत्

Mahabharata

Drona Parva, Adhyaya 88, Verse 29

द्रोणः करिष्यते यत्नं सर्वथा मम वारणे

यत्तो याहि रणे सूत शृणु चेदं वचः परम्

Mahabharata

Drona Parva, Adhyaya 88, Verse 30

एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्

अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम्