Mahabharata

Drona Parva, Adhyaya 87

Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 87, Verse 1

धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः

पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः

Mahabharata

Drona Parva, Adhyaya 87, Verse 2

अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः

न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति

Mahabharata

Drona Parva, Adhyaya 87, Verse 3

निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः

धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ

Mahabharata

Drona Parva, Adhyaya 87, Verse 4

कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते

अनुयास्यामि बीभत्सुं करिष्ये वचनं तव

Mahabharata

Drona Parva, Adhyaya 87, Verse 5

न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते

यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते

Mahabharata

Drona Parva, Adhyaya 87, Verse 6

तस्याहं पदवीं यास्ये संदेशात्तव मानद

त्वत्कृते न च मे किंचिदकर्तव्यं कथंचन

Mahabharata

Drona Parva, Adhyaya 87, Verse 7

यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर

तथा तवापि वचनं विशिष्टतरमेव मे

Mahabharata

Drona Parva, Adhyaya 87, Verse 8

प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ

तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव

Mahabharata

Drona Parva, Adhyaya 87, Verse 9

तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो

भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम

Mahabharata

Drona Parva, Adhyaya 87, Verse 10

द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम्

तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः

Mahabharata

Drona Parva, Adhyaya 87, Verse 11

यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात्

गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः

Mahabharata

Drona Parva, Adhyaya 87, Verse 12

इतस्त्रियोजनं मन्ये तमध्वानं विशां पते

यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः

Mahabharata

Drona Parva, Adhyaya 87, Verse 13

त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम्

आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना

Mahabharata

Drona Parva, Adhyaya 87, Verse 14

अनादिष्टस्तु गुरुणा को नु युध्येत मानवः

आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः

अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो

Mahabharata

Drona Parva, Adhyaya 87, Verse 15

हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम्

इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम्

Mahabharata

Drona Parva, Adhyaya 87, Verse 16

यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि

कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः

Mahabharata

Drona Parva, Adhyaya 87, Verse 17

आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः

नागा मेघनिभा राजन्क्षरन्त इव तोयदाः

Mahabharata

Drona Parva, Adhyaya 87, Verse 18

नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः

अन्यत्र हि वधादेषां नास्ति राजन्पराजयः

Mahabharata

Drona Parva, Adhyaya 87, Verse 19

अथ यान्रथिनो राजन्समन्तादनुपश्यसि

एते रुक्मरथा नाम राजपुत्रा महारथाः

Mahabharata

Drona Parva, Adhyaya 87, Verse 20

रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते

धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः

Mahabharata

Drona Parva, Adhyaya 87, Verse 21

गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा

खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः

Mahabharata

Drona Parva, Adhyaya 87, Verse 22

शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम्

नित्यं च समरे राजन्विजिगीषन्ति मानवान्

Mahabharata

Drona Parva, Adhyaya 87, Verse 23

कर्णेन विजिता राजन्दुःशासनमनुव्रताः

एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति

Mahabharata

Drona Parva, Adhyaya 87, Verse 24

सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः

तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात्

Mahabharata

Drona Parva, Adhyaya 87, Verse 25

ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः

मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात्

Mahabharata

Drona Parva, Adhyaya 87, Verse 26

एतान्प्रमथ्य संग्रामे प्रियार्थं तव कौरव

प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः

Mahabharata

Drona Parva, Adhyaya 87, Verse 27

यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च

प्रेक्षसे वर्मसंछन्नान्किरातैः समधिष्ठितान्

Mahabharata

Drona Parva, Adhyaya 87, Verse 28

किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना

स्वलंकृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः

Mahabharata

Drona Parva, Adhyaya 87, Verse 29

आसन्नेते पुरा राजंस्तव कर्मकरा दृढम्

त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम्

Mahabharata

Drona Parva, Adhyaya 87, Verse 30

तेषामेते महामात्राः किराता युद्धदुर्मदाः

हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः