Mahabharata

Drona Parva, Adhyaya 86

Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 86, Verse 1

प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च

कालयुक्तं च चित्रं च स्वतया चाभिभाषितम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 2

धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः

सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 3

श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत

न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 4

एवंविधे तथा काले मादृशं प्रेक्ष्य संमतम्

वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 5

न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन

त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे

Mahabharata

Drona Parva, Adhyaya 86, Verse 6

लोकत्रयं योधयेयं सदेवासुरमानुषम्

त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 7

सुयोधनबलं त्वद्य योधयिष्ये समन्ततः

विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते

Mahabharata

Drona Parva, Adhyaya 86, Verse 8

कुशल्यहं कुशलिनं समासाद्य धनंजयम्

हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 9

अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप

वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः

Mahabharata

Drona Parva, Adhyaya 86, Verse 10

दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः

मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः

Mahabharata

Drona Parva, Adhyaya 86, Verse 11

अद्य माधव राजानमप्रमत्तोऽनुपालय

आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 12

त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे

नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 13

जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम्

प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव

Mahabharata

Drona Parva, Adhyaya 86, Verse 14

ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति

शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 15

एवं त्वयि समाधाय धर्मराजं नरोत्तमम्

अहमद्य गमिष्यामि सैन्धवस्य वधाय हि

Mahabharata

Drona Parva, Adhyaya 86, Verse 16

जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव

धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात्

Mahabharata

Drona Parva, Adhyaya 86, Verse 17

निगृहीते नरश्रेष्ठे भारद्वाजेन माधव

सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत्

Mahabharata

Drona Parva, Adhyaya 86, Verse 18

एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि

अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः

Mahabharata

Drona Parva, Adhyaya 86, Verse 19

सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति

यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 20

स त्वमद्य महाबाहो प्रियार्थं मम माधव

जयार्थं च यशोर्थं च रक्ष राजानमाहवे

Mahabharata

Drona Parva, Adhyaya 86, Verse 21

स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना

भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो

Mahabharata

Drona Parva, Adhyaya 86, Verse 22

तस्यापि च महाबाहो नित्यं पश्यति संयुगे

नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो

मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः

Mahabharata

Drona Parva, Adhyaya 86, Verse 23

सोऽहं संभावनां चैतामाचार्यवचनं च तत्

पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते

Mahabharata

Drona Parva, Adhyaya 86, Verse 24

आचार्यो लघुहस्तत्वादभेद्यकवचावृतः

उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः

Mahabharata

Drona Parva, Adhyaya 86, Verse 25

यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः

तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः

Mahabharata

Drona Parva, Adhyaya 86, Verse 26

कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि

यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 27

मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम्

न स जातु महाबाहुर्भारमुद्यम्य सीदति

Mahabharata

Drona Parva, Adhyaya 86, Verse 28

ये च सौवीरका योधास्तथा सैन्धवपौरवाः

उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः

Mahabharata

Drona Parva, Adhyaya 86, Verse 29

ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः

एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम्

Mahabharata

Drona Parva, Adhyaya 86, Verse 30

उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा

सराक्षसगणा राजन्सकिंनरमहोरगा