Mahabharata

Drona Parva, Adhyaya 85

Containing 101 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 85, Verse 1

भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत्

संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे

Mahabharata

Drona Parva, Adhyaya 85, Verse 2

शृणु राजन्महाप्राज्ञ संग्रामं लोमहर्षणम्

द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः

Mahabharata

Drona Parva, Adhyaya 85, Verse 3

वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष

अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम्

Mahabharata

Drona Parva, Adhyaya 85, Verse 4

तमापतन्तं सहसा भारद्वाजं महारथम्

सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्

Mahabharata

Drona Parva, Adhyaya 85, Verse 5

द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः

अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः

Mahabharata

Drona Parva, Adhyaya 85, Verse 6

ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः

अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः

Mahabharata

Drona Parva, Adhyaya 85, Verse 7

दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः

द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः

Mahabharata

Drona Parva, Adhyaya 85, Verse 8

भारद्वाजो रणे विद्धो युयुधानेन सत्वरम्

सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत

Mahabharata

Drona Parva, Adhyaya 85, Verse 9

ततः क्रुद्धो महेष्वासो भूय एव महाबलः

सात्वतं पीडयामास शतेन नतपर्वणा

Mahabharata

Drona Parva, Adhyaya 85, Verse 10

स वध्यमानः समरे भारद्वाजेन सात्यकिः

नाभ्यपद्यत कर्तव्यं किंचिदेव विशां पते

Mahabharata

Drona Parva, Adhyaya 85, Verse 11

विषण्णवदनश्चापि युयुधानोऽभवन्नृप

भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान्

Mahabharata

Drona Parva, Adhyaya 85, Verse 12

तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते

प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः

Mahabharata

Drona Parva, Adhyaya 85, Verse 13

तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम्

युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत

Mahabharata

Drona Parva, Adhyaya 85, Verse 14

एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत्

ग्रस्यते युधि वीरेण भानुमानिव राहुणा

अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते

Mahabharata

Drona Parva, Adhyaya 85, Verse 15

धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप

अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत

न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम्

Mahabharata

Drona Parva, Adhyaya 85, Verse 16

असौ द्रोणो महेष्वासो युयुधानेन संयुगे

क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा

Mahabharata

Drona Parva, Adhyaya 85, Verse 17

तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः

त्वयैव सहिता यत्ता युयुधानरथं प्रति

Mahabharata

Drona Parva, Adhyaya 85, Verse 18

पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः

सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम्

Mahabharata

Drona Parva, Adhyaya 85, Verse 19

एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः

अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात्

Mahabharata

Drona Parva, Adhyaya 85, Verse 20

तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम्

पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः

Mahabharata

Drona Parva, Adhyaya 85, Verse 21

ते समेत्य नरव्याघ्रा भारद्वाजं महारथम्

अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः

Mahabharata

Drona Parva, Adhyaya 85, Verse 22

स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम्

अतिथीनागतान्यद्वत्सलिलेनासनेन च

Mahabharata

Drona Parva, Adhyaya 85, Verse 23

तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः

आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा

Mahabharata

Drona Parva, Adhyaya 85, Verse 24

भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम्

मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो

Mahabharata

Drona Parva, Adhyaya 85, Verse 25

तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः

अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान्

Mahabharata

Drona Parva, Adhyaya 85, Verse 26

वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा

त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः

Mahabharata

Drona Parva, Adhyaya 85, Verse 27

द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः

गभस्तय इवार्कस्य प्रतपन्तः समन्ततः

Mahabharata

Drona Parva, Adhyaya 85, Verse 28

तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः

महारथसमाख्याता धृष्टद्युम्नस्य संमताः

Mahabharata

Drona Parva, Adhyaya 85, Verse 29

पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च

द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान्

Mahabharata

Drona Parva, Adhyaya 85, Verse 30

केकयानां शतं हत्वा विद्राव्य च समन्ततः

द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः