Mahabharata

Drona Parva, Adhyaya 83

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 83, Verse 1

द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः

एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः

Mahabharata

Drona Parva, Adhyaya 83, Verse 2

ते पीडिता भृशं तेन रौद्रेण सहसा विभो

प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन

Mahabharata

Drona Parva, Adhyaya 83, Verse 3

नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम्

द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः

Mahabharata

Drona Parva, Adhyaya 83, Verse 4

तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः

विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम्

Mahabharata

Drona Parva, Adhyaya 83, Verse 5

स तान्प्रति महाराज चिक्षिपे पञ्च सायकान्

एकैकं हृदि चाजघ्ने एकैकेन महायशाः

Mahabharata

Drona Parva, Adhyaya 83, Verse 6

ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना

परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम्

Mahabharata

Drona Parva, Adhyaya 83, Verse 7

आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः

प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति

Mahabharata

Drona Parva, Adhyaya 83, Verse 8

भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः

ननाद बलवन्नादं विव्याध च शितैः शरैः

Mahabharata

Drona Parva, Adhyaya 83, Verse 9

यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत्

नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत्

Mahabharata

Drona Parva, Adhyaya 83, Verse 10

साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम्

क्षुरप्रेण शिरो राजन्निचकर्त महामनाः

Mahabharata

Drona Parva, Adhyaya 83, Verse 11

तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम्

भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम्

Mahabharata

Drona Parva, Adhyaya 83, Verse 12

सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः

वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा

Mahabharata

Drona Parva, Adhyaya 83, Verse 13

अलम्बुसस्तु समरे भीमसेनं महाबलम्

योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा

Mahabharata

Drona Parva, Adhyaya 83, Verse 14

संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ

विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा

Mahabharata

Drona Parva, Adhyaya 83, Verse 15

आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः

विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम्

Mahabharata

Drona Parva, Adhyaya 83, Verse 16

तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम्

अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः

Mahabharata

Drona Parva, Adhyaya 83, Verse 17

स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः

भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः

पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा

Mahabharata

Drona Parva, Adhyaya 83, Verse 18

सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः

निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः

Mahabharata

Drona Parva, Adhyaya 83, Verse 19

प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः

विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्

अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः

Mahabharata

Drona Parva, Adhyaya 83, Verse 20

स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः

शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः

Mahabharata

Drona Parva, Adhyaya 83, Verse 21

स वध्यमानः समरे भीमचापच्युतैः शरैः

स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना

Mahabharata

Drona Parva, Adhyaya 83, Verse 22

घोरं रूपमथो कृत्वा भीमसेनमभाषत

तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम्

Mahabharata

Drona Parva, Adhyaya 83, Verse 23

बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली

परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया

Mahabharata

Drona Parva, Adhyaya 83, Verse 24

एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा

महाता शरवर्षेण भृशं तं समवाकिरत्

Mahabharata

Drona Parva, Adhyaya 83, Verse 25

भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा

आकाशं पूरयामास शरैः संनतपर्वभिः

Mahabharata

Drona Parva, Adhyaya 83, Verse 26

स वध्यमानो भीमेन निमेषाद्रथमास्थितः

जगाम धरणीं क्षुद्रः खं चैव सहसागमत्

Mahabharata

Drona Parva, Adhyaya 83, Verse 27

उच्चावचानि रूपाणि चकार सुबहूनि च

उच्चावचास्तथा वाचो व्याजहार समन्ततः

Mahabharata

Drona Parva, Adhyaya 83, Verse 28

तेन पाण्डवसैन्यानां मृदिता युधि वारणाः

हयाश्च बहवो राजन्पत्तयश्च तथा पुनः

रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः

Mahabharata

Drona Parva, Adhyaya 83, Verse 29

शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्

छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम्

Mahabharata

Drona Parva, Adhyaya 83, Verse 30

नदीं प्रवर्तयामास रक्षोगणसमाकुलाम्

वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान्