Mahabharata

Drona Parva, Adhyaya 81

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 81, Verse 1

अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः

पाञ्चालाः कुरुभिः सार्धं किमकुर्वत संजय

Mahabharata

Drona Parva, Adhyaya 81, Verse 2

अपराह्णे महाराज संग्रामे लोमहर्षणे

पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत

Mahabharata

Drona Parva, Adhyaya 81, Verse 3

पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः

अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष

Mahabharata

Drona Parva, Adhyaya 81, Verse 4

ततः सुतुमुलस्तेषां संग्रामोऽवर्तताद्भुतः

पाञ्चालानां कुरूणां च घोरो देवासुरोपमः

Mahabharata

Drona Parva, Adhyaya 81, Verse 5

सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह

तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन्

Mahabharata

Drona Parva, Adhyaya 81, Verse 6

द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः

कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम्

Mahabharata

Drona Parva, Adhyaya 81, Verse 7

तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः

प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान्

Mahabharata

Drona Parva, Adhyaya 81, Verse 8

तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः

विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः

Mahabharata

Drona Parva, Adhyaya 81, Verse 9

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः

त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम्

Mahabharata

Drona Parva, Adhyaya 81, Verse 10

तमापतन्तं सहसा व्यादितास्यमिवान्तकम्

वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात्

Mahabharata

Drona Parva, Adhyaya 81, Verse 11

युधिष्ठिरं महाराज जिगीषुं समवस्थितम्

सहानीकं ततो द्रोणो न्यवारयत वीर्यवान्

Mahabharata

Drona Parva, Adhyaya 81, Verse 12

नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी

अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो

Mahabharata

Drona Parva, Adhyaya 81, Verse 13

सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः

शरैरनेकसाहस्रैः समवाकिरदाशुगैः

Mahabharata

Drona Parva, Adhyaya 81, Verse 14

सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत्

शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः

Mahabharata

Drona Parva, Adhyaya 81, Verse 15

द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान्

संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत्

Mahabharata

Drona Parva, Adhyaya 81, Verse 16

भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम्

प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः

Mahabharata

Drona Parva, Adhyaya 81, Verse 17

तयोः समभवद्युद्धं नरराक्षसयोर्मृधे

यादृगेव पुरा वृत्तं रामरावणयोर्नृप

Mahabharata

Drona Parva, Adhyaya 81, Verse 18

ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम्

आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत

Mahabharata

Drona Parva, Adhyaya 81, Verse 19

तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे

रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना

Mahabharata

Drona Parva, Adhyaya 81, Verse 20

भूय एव तु विंशत्या सायकानां समाचिनोत्

साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम्

Mahabharata

Drona Parva, Adhyaya 81, Verse 21

ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः

अवारयत धर्मात्मा दर्शयन्पाणिलाघवम्

Mahabharata

Drona Parva, Adhyaya 81, Verse 22

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे

चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः

Mahabharata

Drona Parva, Adhyaya 81, Verse 23

अथैनं छिन्नधन्वानं त्वरमाणो महारथः

शरैरनेकसाहस्रैः पुरयामास सर्वतः

Mahabharata

Drona Parva, Adhyaya 81, Verse 24

अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः

सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम्

Mahabharata

Drona Parva, Adhyaya 81, Verse 25

केचिच्चैनममन्यन्त तथा वै विमुखीकृतम्

हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना

Mahabharata

Drona Parva, Adhyaya 81, Verse 26

स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः

त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे

आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम्

Mahabharata

Drona Parva, Adhyaya 81, Verse 27

ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः

चिच्छेद समरे वीरस्तदद्भुतमिवाभवत्

Mahabharata

Drona Parva, Adhyaya 81, Verse 28

छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः

शक्तिं जग्राह समरे गिरीणामपि दारणीम्

स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम्

Mahabharata

Drona Parva, Adhyaya 81, Verse 29

समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली

नादेन सर्वभूतानि त्रासयन्निव भारत

Mahabharata

Drona Parva, Adhyaya 81, Verse 30

शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे

स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन्