Drona Parva, Adhyaya 80, Verse 1
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया
पार्थानां मामकानां च तान्ममाचक्ष्व संजय
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया
पार्थानां मामकानां च तान्ममाचक्ष्व संजय
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम्
रूपतो वर्णतश्चैव नामतश्च निबोध मे
तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः
नानावर्णविरागाभिर्विबभुः सर्वतो वृताः
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः
नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ
दोधूयमाना रथिनां शोभयन्ति महारथान्
सिंहलाङ्गूलमुग्रास्यं ध्वजं वानरलक्षणम्
धनंजयस्य संग्रामे प्रत्यपश्याम भैरवम्
स वानरवरो राजन्पताकाभिरलंकृतः
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत
ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम्
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम्
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम्
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे
आहवे खं महाराज ददृशे पूरयन्निव
पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे
नृत्यतीव रथोपस्थे श्वसनेन समीरितः
आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः
स तेन भ्राजते राजन्गोवृषेण महारथः
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान्
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन्
तेन तस्य रथो भाति मयूरेण महात्मनः
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम्
सा सीता भ्राजते तस्य रथमास्थाय मारिष
सर्वबीजविरूढेव यथा सीता श्रिया वृता
वराहः सिन्धुराजस्य राजतोऽभिविराजते
ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः
शुशुभे केतुना तेन राजतेन जयद्रथः
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः
शलस्य तु महाराज राजतो द्विरदो महान्
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः
स केतुः शोभयामास सैन्यं ते भरतर्षभ
यथा श्वेतो महानागो देवराजचमूं तथा
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः
किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे
व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते
ध्वजेन महता संख्ये कुरूणामृषभस्तदा
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः
व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः
अदीप्यतार्जुनो येन हिमवानिव वह्निना
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परंतपाः