Drona Parva, Adhyaya 79, Verse 1
तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ
प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान्
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ
प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान्
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः
दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः
रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते
कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः
कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः
व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः
समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान्
व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः
पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः
धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन्
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः
पूरयन्तो दिवं राजन्पृथिवीं च ससागराम्
तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ
प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः
शब्दस्तु देवदत्तस्य धनंजयसमीरितः
पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत्
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः
सर्वशब्दानतिक्रम्य पूरयामास रोदसी
तस्मिंस्तथा वर्तमाने दारुणे नादसंकुले
भीरूणां त्रासजनने शूराणां हर्षवर्धने
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च
मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः
महारथसमाख्याता दुर्योधनहितैषिणः
अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः
नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च
बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम्
उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो
तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम्
बभूव भृशमुद्विग्नं निर्घातैरिव नादितम्
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत्
त्रासयामास तत्सैन्यं युगान्त इव संभृतः
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन्
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत्
अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः
तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत्
अत्यर्थमिव संक्रुद्धः प्रतिविद्धे जनार्दने
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान्
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम्
भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः
कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः
जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः
मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत्
वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः
प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम्
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः
शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः
शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः