Mahabharata

Drona Parva, Adhyaya 78

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 78, Verse 1

एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः

प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान्

Mahabharata

Drona Parva, Adhyaya 78, Verse 2

वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे

प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत्

Mahabharata

Drona Parva, Adhyaya 78, Verse 3

तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः

अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः

Mahabharata

Drona Parva, Adhyaya 78, Verse 4

तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च

प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः

Mahabharata

Drona Parva, Adhyaya 78, Verse 5

अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान्

अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः

Mahabharata

Drona Parva, Adhyaya 78, Verse 6

अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्

त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः

Mahabharata

Drona Parva, Adhyaya 78, Verse 7

कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ

मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव

Mahabharata

Drona Parva, Adhyaya 78, Verse 8

न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः

तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः

Mahabharata

Drona Parva, Adhyaya 78, Verse 9

विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान्

व्यर्थान्निपततः संख्ये दुर्योधनरथं प्रति

Mahabharata

Drona Parva, Adhyaya 78, Verse 10

वज्राशनिसमा घोराः परकायावभेदिनः

शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना

Mahabharata

Drona Parva, Adhyaya 78, Verse 11

द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता

अन्ते विहितमस्त्राणामेतत्कवचधारणम्

Mahabharata

Drona Parva, Adhyaya 78, Verse 12

अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि

एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात्

Mahabharata

Drona Parva, Adhyaya 78, Verse 13

न शक्यमेतत्कवचं बाणैर्भेत्तुं कथंचन

अपि वज्रेण गोविन्द स्वयं मघवता युधि

Mahabharata

Drona Parva, Adhyaya 78, Verse 14

जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम्

यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते

Mahabharata

Drona Parva, Adhyaya 78, Verse 15

तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव

न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन

Mahabharata

Drona Parva, Adhyaya 78, Verse 16

एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्

तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम्

Mahabharata

Drona Parva, Adhyaya 78, Verse 17

यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव

स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम्

Mahabharata

Drona Parva, Adhyaya 78, Verse 18

पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन

पराजयिष्ये कौरव्यं कवचेनापि रक्षितम्

Mahabharata

Drona Parva, Adhyaya 78, Verse 19

इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम्

पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम्

Mahabharata

Drona Parva, Adhyaya 78, Verse 20

दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम्

नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया

Mahabharata

Drona Parva, Adhyaya 78, Verse 21

एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत्

विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान्

तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना

Mahabharata

Drona Parva, Adhyaya 78, Verse 22

तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना

न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः

Mahabharata

Drona Parva, Adhyaya 78, Verse 23

नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन

अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम

Mahabharata

Drona Parva, Adhyaya 78, Verse 24

ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः

अविध्यत रणे राजञ्शरैराशीविषोपमैः

भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ

Mahabharata

Drona Parva, Adhyaya 78, Verse 25

शरवर्षेण महता ततोऽहृष्यन्त तावकाः

चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा

Mahabharata

Drona Parva, Adhyaya 78, Verse 26

ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन्

नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम्

Mahabharata

Drona Parva, Adhyaya 78, Verse 27

ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः

हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी

Mahabharata

Drona Parva, Adhyaya 78, Verse 28

धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान्

रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे

Mahabharata

Drona Parva, Adhyaya 78, Verse 29

दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्

अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा

Mahabharata

Drona Parva, Adhyaya 78, Verse 30

तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः

समापेतुः परीप्सन्तो धनंजयशरार्दितम्