Drona Parva, Adhyaya 76, Verse 1
स्रंसन्त इव मज्जानस्तावकानां भयान्नृप
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्रंसन्त इव मज्जानस्तावकानां भयान्नृप
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ
सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः
स्थिरीबूता महात्मानः प्रत्यगच्छन्धनंजयम्
ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव
असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम्
तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ
मत्स्याविव महाजालं विदार्य विगतज्वरौ
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत्
विमुक्तौ शस्त्रसंबाधाद्द्रोणानीकात्सुदुर्भिदात्
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ
अस्त्रसंबाधनिर्मुक्तौ विमुक्तौ शस्त्रसंकटात्
अदृश्येतां महात्मानौ शत्रुसंबाधकारिणौ
विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव
व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव
तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम्
तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम्
आशा बलवती राजन्पुत्राणामभवत्तव
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो
तामाशां विफलां कृत्वा निस्तीर्णौ तौ परंतपौ
द्रोणानीकं महाराज भोजानीकं च दुस्तरम्
अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ
निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे
मिथश्च समभाषेतामभीतौ भयवर्धनौ
जयद्रथवधे वाचस्तास्ताः कृष्णधनंजयौ
असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः
चक्षुर्विषयसंप्राप्तो न नौ मोक्ष्यति सैन्धवः
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह
तथाप्येनं हनिष्याव इति कृष्णावभाषताम्
इति कृष्णौ महाबाहू मिथः कथयतां तदा
सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः
अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ
पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ
व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान्
अदृश्येतां महाबाहू यथा मृत्युजरातिगौ
तथा हि मुखवर्णोऽयमनयोरिति मेनिरे
तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात्
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ
तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा
शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान्
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ
द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसंकटात्
अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः
ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव
बाहुभ्यामिव संतीर्णौ सिन्धुषष्ठाः समुद्रगाः
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः
इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात्
जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया
रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम्