Drona Parva, Adhyaya 75, Verse 1
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः
मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः
अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत्
सिद्धचारणसंघानां सैनिकानां च सर्वशः
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत्
आपतत्सु रथौघेषु प्रभूतगजवाजिषु
नासंभ्रमत्तदा पार्थस्तदस्य पुरुषानति
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः
न चाव्यथत धर्मात्मा वासविः परवीरहा
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान्
आगतानग्रसत्पार्थः सरितः सागरो यथा
अस्त्रवेगेन महता पार्थो बाहुबलेन च
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान्
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः
अपूजयन्महाराज कौरवाः परमाद्भुतम्
किमद्भुततरं लोके भविताप्यथ वाप्यभूत्
यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि
अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत
अर्जुनेन कृते संख्ये शरगर्भगृहे तदा
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः
मिषतां सर्वसैन्यानां त्वदीयानां विशां पते
तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान्
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान्
उपावृत्य यथान्यायं पाययामास वारि सः
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान्
योजयामास संहृष्टः पुनरेव रथोत्तमे
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम्
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन्
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक्
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ
बालक्रीडनकेनेव कदर्थीकृत्य नो बलम्
क्रोशतां यतमानानामसंसक्तौ परंतपौ
दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु
तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन्
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः
रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम्
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः
अदृष्टपूर्वं संग्रामे तद्दृष्ट्वा महदद्भुतम्
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी
विलयं समनुप्राप्ता तच्च राजा न बुध्यते
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम्
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित्
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति
निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम्
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत्