Drona Parva, Adhyaya 74, Verse 1
परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः
रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः
रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः
तिष्ठतां युध्यमानानां पुनरावर्ततामपि
भज्यतां जयतां चैव जगाम तदहः शनैः
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः
चकार तत्र पन्थानं ययौ येन जनार्दनः
यत्र यत्र रथो याति पाण्डवस्य महात्मनः
तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान्
उत्तमाधममध्यानि मण्डलानि विदर्शयन्
ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः
वैणवायस्मयशराः स्वायता विविधाननाः
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे
रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान्
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान्
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः
तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत्
न तथा गच्छति रथस्तपनस्य विशां पते
नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः
प्रविश्य तु रणे राजन्केशवः परवीरहा
सेनामध्ये हयांस्तूर्णं चोदयामास भारत
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः
हतानां वाजिनागानां रथानां च नरैः सह
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप
सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम्
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम्
शराणां च शतेनाश्वानविध्येतां मुदान्वितौ
तावर्जुनो महाराज नवभिर्नतपर्वभिः
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम्
आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः
तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः
चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा
पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः
तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः
चिच्छेद धनुषी तूर्णं भूय एव धनंजयः
तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः
जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः
विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान्
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः
अभ्यद्रवत संग्रामे भ्रातुर्वधमनुस्मरन्
गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः
अनुविन्दस्तु गदया ललाटे मधुसूदनम्
स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम्
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः
निचकर्त स संछिन्नः पपाताद्रिचयो यथा
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः
अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान्