Mahabharata

Drona Parva, Adhyaya 73

Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 73, Verse 1

बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते

तेन वृष्णिप्रवीरेण युयुधानेन संजय

Mahabharata

Drona Parva, Adhyaya 73, Verse 2

अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः

नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि

Mahabharata

Drona Parva, Adhyaya 73, Verse 3

संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः

तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान्

Mahabharata

Drona Parva, Adhyaya 73, Verse 4

संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन्

नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः

Mahabharata

Drona Parva, Adhyaya 73, Verse 5

उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः

रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत्

Mahabharata

Drona Parva, Adhyaya 73, Verse 6

शरपातमहावर्षं रथघोषबलाहकम्

कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम्

Mahabharata

Drona Parva, Adhyaya 73, Verse 7

शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम्

द्रोणमेघमनावार्यं हयमारुतचोदितम्

Mahabharata

Drona Parva, Adhyaya 73, Verse 8

दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः

उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः

Mahabharata

Drona Parva, Adhyaya 73, Verse 9

एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम्

आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम्

Mahabharata

Drona Parva, Adhyaya 73, Verse 10

शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत्

आचार्यं राजपुत्राणां सततं शूरमानिनम्

Mahabharata

Drona Parva, Adhyaya 73, Verse 11

ततो रजतसंकाशा माधवस्य हयोत्तमाः

द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः

Mahabharata

Drona Parva, Adhyaya 73, Verse 12

इषुजालावृतं घोरमन्धकारमनन्तरम्

अनाधृष्यमिवान्येषां शूराणामभवत्तदा

Mahabharata

Drona Parva, Adhyaya 73, Verse 13

ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा

नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः

Mahabharata

Drona Parva, Adhyaya 73, Verse 14

इषूणां संनिपातेन शब्दो धाराभिघातजः

शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः

Mahabharata

Drona Parva, Adhyaya 73, Verse 15

नाराचैरतिविद्धानां शराणां रूपमाबभौ

आशीविषविदष्टानां सर्पाणामिव भारत

Mahabharata

Drona Parva, Adhyaya 73, Verse 16

तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः

अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव

Mahabharata

Drona Parva, Adhyaya 73, Verse 17

उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी

रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा

Mahabharata

Drona Parva, Adhyaya 73, Verse 18

निर्मलानामजिह्मानां नाराचानां विशां पते

निर्मुक्ताशीविषाभानां संपातोऽभूत्सुदारुणः

Mahabharata

Drona Parva, Adhyaya 73, Verse 19

उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ

उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ

Mahabharata

Drona Parva, Adhyaya 73, Verse 20

स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ

अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः

Mahabharata

Drona Parva, Adhyaya 73, Verse 21

गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः

उपारमन्महाराज व्याजहार न कश्चन

Mahabharata

Drona Parva, Adhyaya 73, Verse 22

तूष्णींभूतान्यनीकानि योधा युद्धादुपारमन्

ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः

Mahabharata

Drona Parva, Adhyaya 73, Verse 23

रथिनो हस्तियन्तारो हयारोहाः पदातयः

अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ

Mahabharata

Drona Parva, Adhyaya 73, Verse 24

हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम्

तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः

Mahabharata

Drona Parva, Adhyaya 73, Verse 25

मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः

ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः

Mahabharata

Drona Parva, Adhyaya 73, Verse 26

वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः

विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः

Mahabharata

Drona Parva, Adhyaya 73, Verse 27

जातरूपमयीभिश्च राजतीभिश्च मूर्धसु

गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत

Mahabharata

Drona Parva, Adhyaya 73, Verse 28

सबलाकाः सखद्योताः सैरावतशतह्रदाः

अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः

Mahabharata

Drona Parva, Adhyaya 73, Verse 29

अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः

तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः

Mahabharata

Drona Parva, Adhyaya 73, Verse 30

विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः

सिद्धचारणसंघाश्च विद्याधरमहोरगाः